SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ||७|| स विद्याधरो दृष्टः । शंखकुमारेण खड्ग निष्कास्य प्रोक्तं-रे दुरात्मन् ! परस्त्रीपातकफळमधुना विलोकय ।। इत्युक्त्वा तेन पादप्रहारेण स भूमौ पातितः । अथ विद्याधरेणोक्त-हे सरपुरुष ! अद्यप्रभृत्यहं तब सेवकोऽस्मीत्युक्त्वासी कुमारचरण योलग्नः । दयालुना कुमारेणापि स जीवनमुक्तः । हुप्टेन विद्याधरेण तस्मै भरिमणिमुक्ताफळवस्त्राभरणादीन्यपितानि । अथ कुमारेण सा यशोमती जितारिनृपाय समर्पिता । जितारिणापि महद्धर्धा सा शंखकुमाराय परिणायिता । तां गृहीत्वा शंखकुमारो महत्ताडंवरण हस्तिनागपुरे समायातः । अथ श्रीषेण राजा तस्मै शंखकुमाराय राज्यं दत्वा स्वयं चारित्रं गृहीत्वा केवळज्ञानमासाद्यान्यदा हस्तिनागपुरे समायातः । शंखराजा सांतःपुरस्तं वंदितुं समागतः । देशनांते राजा पृष्ट-हे भगवन् ! मम यशोमत्याश्चैतावान् स्नेहः परस्पर कथं ? केवलिना तयोः पूर्वभववृत्तांतं कथयित्वोक्त-हे राजन् ! अथ नवमे भवे त्वं नेमिनाथाख्यो द्वाविंशतितमस्तीर्थकरो भविष्यसि, यशोमती चेयं राजीमती भविष्यति । तत् श्रुत्वा शंखराजा वैराग्यमासाद्य पुंडरीकपुत्राय राज्यं दत्त्वा यशोमत्या सह दीक्षामादाय विशतिस्थानकतप आराध्य तीर्थकर नामकर्म बध्ध्वा प्रांतेऽनशनं JAI७१॥ कृतवान् । ततस्ती द्वावल्यपराजित विमाने देवत्वेनोत्पनी. ___ तत आयु:क्षये जंबुद्वीपे भरतक्षेत्रे शोरीपुरनगरे यादववंशीयसमुद्रविजयराज्ञः शिवादेवीराश्याः कुक्षी कार्तिक कृष्णद्वादश्यां शंखजीवो ज्ञानत्रययुतः पुत्रत्वेनोपन्नः । राज्या चतुर्दशमहास्वप्नानि दृष्ट्वा तेषां फलं राज्ञे पृष्टं । समुद्रविजयेनोक्तं-हे प्रिये ! तीर्थकरो वा चक्री तव कुक्षाबुलन्नोऽस्ति । प्रभाते राजा स्वप्नपाठकेभ्यस्तत्फलं पृष्टं ।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy