________________
श्री दानादि
कलक
वृत्तिः
॥६८॥
कुमारेणोक्तं यद्यपि चौरोज्यं तथापि शरणागतत्त्वान वधार्ह तत् श्रुत्वा ते राजपुरुषास्तं कुमारं हेतु धाविताः परं कुमारेण ताडितास्ततो नंष्ट्वा ते निजनृपसमीपे गतास्ततो राज्ञा निजसैत्यं तत्र प्रेषितं तदपि कुमारेण निर्जितं । ततो राजा स्वयं तत्रागत्य मंत्रिपुत्राय पृष्टवान् कस्यायं कुमारोऽस्ति ? तेन सर्वोऽपि वृत्तांतः कथितस्ततस्तुष्टेन राज्ञोक्तमहो एपतु मम मित्र हरिनंदिपुत्र इत्युक्त्वा तं गृहे समानीय निजकनकमाल : भिधाना पुत्री तेन सह परिणायिता । अथ कुमारः कियत्कालं तत्र स्थित्त्वा देशांतर विलोकनकुतूहलतया मंत्रिपुत्रान्वितो निर्गतः । मार्ग मुल्लंघ्य तावेकनगरसमीपमुपागतों । इतस्तत्र वने कस्याचिखियो रुदनं श्रुत्वा तच्छब्दानुसारेण तत्र गतौ । तदा तत्राग्निकुंडलमीपे एका स्त्रियं खड्गपाणि चैकं पुरुषं प्ट्वा कुमारी वभाण - अरे दुरात्मन्नतां स्त्रियं मुञ्च नो चेद्युद्धं कुरु । इत्युक्त्वा कुमारस्तं विद्याधरं निर्जितवान् । इतः प्रभाते तत्कन्याजनको राजा तस्याः शोधनार्थं तत्रागतः । कुमारेण सर्वोऽपि वृत्तांतस्तस्मै कथितः । हृप्टेन राज्ञा तस्या रत्नमालायाः पाणिग्रहणं तेन कुमारेण सहकारितं । अथ तत्रापि कियत्कालं स्थित्वा प्रच्छन्नतया स निर्गतः कुण्डलपुरसमीपे समागत्य ताभ्यां केवलिन उपदेशं श्रुत्वा पृष्टं किमावां भव्यौ वा अभव्यौ ? केवलिनोक्त युवां द्वावपि भव्यो । पुनर्हे कुमार ! एवं तु इतः पंचमे भवे भरतक्षेत्रे श्रीनेमिनाथाभिवस्तीर्थंकरो भविष्यसि । तवायं सुहृश्च तवाद्यो गणधरो भविष्यति । तत् श्रुत्वा हर्षितो तो द्वावपि तत् आनंदपुरे प्राप्तौ । तत्र जितशत्रुराजा, धारिणी राशी, तस्याः कुक्षौ माद्रदेवलोकाच्च्युतो रत्नवतीजीवः प्रीतिमती नाम पुत्रीत्त्वेनोत्पन्नः । सकलकलाकलापकलितया तया यौवनावस्थायां
शील
कुलकम्
नेमिनाथ चरित्रं
॥६८