SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ।।६९।। पितुः पुर इति प्रतिज्ञा कृता, यो मां कलया जेष्यति स मे भर्ता भविष्यति । इति श्रुत्वा पित्रा स्वयंवर मंडपो मंडितस्तत्रानेकनुपभूचरखेचराः समायाताः, अपराजितकुमारोऽपि गुटिकाप्रभावतो स्पपरावर्तनेन काटिकरूपं विधाय तत्र समायातः । अथ प्रतिहारोयुक्ता मनोहरवरमाळामंडितहस्ता राजकुमारी तत्र समागता । तथा पापून् समन्याकाव्यानि प्रोक्तानि परं कोऽपि तेषां पूर्ती समर्थो नाभूत् । यदा सर्वेऽपि राजकुमारादयो दिङ्मूढा जातास्तदापराजित कुमारेण स्तंभपुत्तलिका मस्तकोपरि स्वकरं न्यस्य तस्या मुखेन सर्वा अपि समस्याः पूरिताः । तद् दृष्ट्वा कुमारीराजभ्यादयः सर्वेऽपि चित्तेषु चमत्कृति प्राप्ताः । पूर्वभवस्नेहाकृष्टया कुमार्या तत्कालमेव तत्काटिक वेषभृक्तुमारकंडे वरमाळा क्षिप्ता । तथाभूतं वीक्ष्य तत्र मिलिताः स्वध्यन्ये राजकुमाराः शत्रणि सञ्जीकृत्यापराजितकुमारं प्रति धाविताः परं कुमारेण निजरूपं प्रकटीकृत्य सिंहनादस्तथा कृतो यथा ते सर्वेऽपि मृगवत्पलायिताः । अथ तत्रागत सोमप्रभाभिधेन तस्य मातुलेन कुमारमुपालक्ष्य सर्वोऽपि तस्य कुलादिवृत्तांतः कथितः । ततो हृष्टेन जितशत्रुनृपेण शुभलग्ने तयोविवाहः कारितः । मंत्रिणा च स्वपुत्री विमळबोधाय परिणायिता । अथ हरिनंदनृपेण तत्रस्थं कुमारं ज्ञात्वा स्वमंत्रिणं कीर्तिराजं तत्र प्रेप्य कुमार आकारितः । कुमारोऽपि मत्रिमित्रभार्यादिपरिवारयुतो निजनगरे प्राप्तः । ततो राजा कुमाराय राज्यं दत्त्वा स्वयं दीक्षां गृहीत्वा शुद्धचारित्रं अपाल्य मोक्षं गतः । ततोऽवसरेऽपराजितराजापि पद्मपुत्राय राज्यं दत्त्वा सवळलों दीक्षां गृहीत्वा प्रांत चानशनं १६९॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy