SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री दानादि कुलक वृत्तिः ॥६६॥ सज्जीभूतः । लोकेऽपि तत्प्रकटीभूतं यद्भद्रया सुमित्राय विषं दत्तमिति श्रुत्वा भद्रा प्रणष्टा, राजा सुमित्रं प्रति धर्म श्रावयामास । तद्गुणान् संस्मृत्य च स रोदितुं लग्नः । इतश्चिगतिविद्याधरो विमानस्थितस्तनगरोपरि समायातः पौरान् राजानं च दुःखिनं वीक्ष्याधोऽवतीर्य लोकमुखात्तद्वार्ता श्रुत्त्वा मंत्रितवारिणा सुमित्रं प्रक्षालयामास । ततः सुमित्रः स्वस्थीभूयावदत् कथमेते लोका मां परिवेष्ट्य स्थिताः संति ? राज्ञा सर्वोऽपि वृतांत कथितस्तदा सुमित्रस्तृणं समुत्थाय चित्रगति नस्वा कथयति - हे सत्पुरुष ! त्वया ममोपरि महोपकार: कुपव तवोत्तमकुलं ज्ञातं तथापि स्वकुलं त्वं प्रकाशय ? सदा चित्रगतिसेवकंस्तस्य कुलादिवार्ता प्रकाशिता । इतस्तत्र भूयशानामा केवली समायातः । नृपादिसर्वेऽपि तं वंदितुं गतास्तत्र च केवलिमुखात्धमं श्रुत्त्वा चित्रगतिना सम्यक्त्वं स्वीकृतं । अयं मुग्रीवेन पुष्टं हे भगवन् ! सा भद्रा सुमित्राय विषं दत्त्वा क्व गया ? केवलिनोक्तं-भद्रा नष्टा चौधृता । तस्या वस्वामरणानि गृहीत्वा तैः कस्मै वणिजे विक्रीता । तत्पार्श्वदपि प्रणष्टा वने दवदग्धा मृत्वा प्रथमतरके गता, ततोऽपि निःसृत्य तज्जीवो बहुसंसारं भ्रमिष्यति । तत् श्रुत्वा वैराग्यमापन्न सुग्रीवराज्ञा सुमित्राय राज्यं दत्त्वा दीक्षा गृहीता । चित्रगतिरपि स्वस्थानके गतः । इतोऽमंग सिंहपुत्रेण कमलविद्याधरेण सुमित्रभगिन्यपहृता । तदा सुमित्रेण सह निजप्रीति विज्ञाय चित्रगतिना कमलेन सह संग्रामो मंडितः । पुत्रर नेहेनानंगसिंहोऽपि तत्रागतः, तदा चित्रगतिनांधकारं विकुव्यं तस्य खड्गोऽपहृतः । संग्रामे च तो विजित्य चित्रगतिः सुमित्रभगिनीं गृहित्वा गृहे रुमायातः । सुमित्रस्तु भगिनी दान कुलकम् नेमिनाथ चरित्रं ||६६॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy