________________
१६५॥
भगवन् ! यूयं निश्चेतनीभूय कथं पतिताः ? साधुनोक्तं परमार्थतोऽहं संसारात् खिन्नो भूत्वा पतितोऽभूवं । द्रव्यतश्च मे वृत्तांतं शृणुतं । नाम्नाहं मुनिचद्रोऽस्मि सार्थाभ्रष्टो बुभुक्षितश्च पतितः । पश्चाद्युवाभ्यामुपचारं कृत्वाहं सचेतनीकृतः । ततेा धनधनवतीभ्यां तस्य मुनेः पार्श्वे सम्यक्त्वमूलद्वादशव्रतानि गृहीतानि । विक्रमराजापि निजराज्यं धनकुमाराय दत्वा चारित्रं जग्राह । धनराज्ञापि कियंतं कालं यावद्राज्यं पालयित्वा निजपुत्रजयंताय राज्यं दत्त्वा धनवत्या सह दीक्षा गृहीता । प्रांत च मासिकी संलेखनां कृत्वा तौ द्वावपि सौधर्मदेवलांके सामान्येंद्रत्वं प्राप्तौ इति द्वितीयो भवः २.
तत्र द्विसागरोपमायुर्भुक्त्वा वैताढ्यपर्वते उत्तरश्रेण्यां सूरतेजनगरे सूरनामा विद्याधरो विद्युत्मतीभार्या । तयोः पुत्रत्वेन धनजीवश्चित्रगतिनामा बभूव । घनवतीजीवस्तु दक्षिणश्रेण्यां अनंग सिंहनुपशशिप्रभाराज्यों रत्नवतीनामपुत्रत्वेनोत्पन्नः । तथा तो द्वापि स्वस्वनगरे यौवनावस्थां प्राप्तौ । अर्थकदानंगसेनराज्ञा निजपुत्र्या वरार्थमेको नैमित्तिकः पृष्टस्तेनोक्तं हे राजन् ! युद्धावसरे यस्तव करवाल गृहिष्यति पुननंदीश्वरद्वीपे यस्य मस्तकोपरि पुष्पवृष्टिर्भविष्यति स तव पुत्री भर्ता भविष्यति । ततो राज्ञा दानपूर्वकं नैमित्तिको विसृष्टः इतश्व भरतक्षेत्रे विक्रमपुरे सुग्रीवाभिधो राजा तस्य यशस्वीभद्राख्ये द्वे भायें । तयोः सुमित्रपद्याभिधानो यथाक्रमं हो पुत्रो जाती । भद्रया चितितं यशस्वीपुत्रसुमित्रेण सता मत्पुत्रस्य राज्यं न मिलिष्यति । इति विचित्य तया सुमित्राय विषं दत्तं । यावता सुमित्रो व्याकुलीभूतस्तावता तत्र राजा समायातः । अनेक मंत्र-तंत्राद्युपचारे कृतेऽपि सन
।।६५॥