________________
पिअमाइभाइभइणी-भज्जापुत्तत्तणेण सम्वेबि ।। जीवा जाया बहुसो, जीवस्स एगमेगस्स ||
व्याख्या-पितमात भ्रातभगिनोभार्या पुगत्वेन सर्वेऽपि जीवा जाता बहबारं जीवस्यकैकस्य । ततो भ्रातविशेषाण समर्पियंवरागी सन भगवांस्तस्थौ । ततो द्विवर्षानंतरं वार्षिक दानं दत्वा सुरासुरनरेद्राणां महामहोत्सवपूर्वकं नंदिवर्द्धन मनुज्ञाप्यक देवदूप्यं वस्त्रमादाय सालंकारवस्त्रादिरहित: सन् श्रीवीर एकाकी दीक्षा गृहीतवान् । अथानेकतप:संयमानि निरतीचारतथाऽप्रमत्तः सन् स पालयति । अथ दीक्षितस्याऽपि भगवतो । दानाधिकारो यथा-ता मोमिलाभिधो द्विजो भगवत्पितमित्रीभूतोऽप्यभाग्यवशाऽऽज्जन्मदरिद्री कुचिद्भिक्षावृत्ति । कुर्वन देशांतरे गत, पश्चादभगवतो दीक्षा ग्रहीना । ततः स द्विजो देशांतरं परिभ्रम्य किमान्य प्राप्तः सन यथा गतस्तथा आगतः स्वगहंप्रति । ततः स्वभार्यया कर्कश या तं निर्द्रव्यं समागतं दृष्ट्वा कर्कशव चननिर्भसितः । तदा सा कथयति-रे निर्भाग्यशिरोमणे ! हे आजन्मदरिद्र ! रे दुभंग ! रे निर्गुण ! हे कुत्सितयेष ! त्वं कथं स्वमुख लात्वा गृह समागत. ? अहं त्वां धनं विना साक्षाद्दरिद्ररूपं किं करोमि ? तब अभाग्यवशादद्य गृहे किमपि नास्ति, यतः-अनं मास्त्युदकं नास्ति, नास्ति गेहे युगंधरी || न शाकमध्ये लवणं, यन्नारित तन्न भुज्यते ॥शा अतो मद्गहे स्वत्प्रसादाकिमपि नास्ति, केवलं दारिद्र्यमेवास्ति । पुनः सा प्राह-रे निर्भाग्य ! त्वयि देशांतरे गते सति श्रीवीरो मेघवत्परिवृष्टः सर्वेऽपि धनिनो जाताः, एवं सति त्वं परदेशं गतः। इत्थं भार्यया तजितः सन् स निर्वेदमापनः । पुनः भार्या प्राह-रे दरिद्र एनमेव स्वामिनं पश्चात् परिभ्रम, येनैतावंति
||३||