________________
श्री
दान बलकम्
दानादिकुलकवृत्तिः
महावीर चरित्र
1॥२॥
श्री महावीरस्वामिना स प्रकाशितः. प्रथमं श्रीमहावीरेणात्मना दानं दनं. तस्याद्या गाभापरिहरिअ रजसारो, उडि संजक्किगुरुभारो । खंधाउं देव दस्स, वियरतो जयउ वीरजिणो |
व्याख्या-राज्यसारं राज्यरहस्यं राज्यभारं द्रव्यं वा परिहत्य संयमैकगम्भारमुत्पाटय ईदृशः श्रीमहावीर स्कंधाद्देवदूप्यं वखं ददानः सन् जयत्रान् पवर्ततु । एतचरित्र प्रसिद्धमेब, श्री कल्पसूत्रवत्यनमारतो ज्ञयं, तथापि अल्पचरित्रं लिख्यते, यथा
क्षत्रियकंडग्रामनगरे सिद्धार्थराजापरिवसांत । तस्य पट्टराजा त्रिभला, तया चतुर्दशस्वप्नमुचितः श्रीवर्धमानः प्रसवितः । अनुक्रमेण यौवनं प्राप्तः सन् स मालवनरपतिक्षत्रियस्य यशोदानाम्नी पुत्री मातापित्रोरामण परिणीतवान् । तया सह विषयसुखं भुजानोऽस्ति । ततो वीरस्य प्रियदर्शना नाम्नी पुत्री जाता। सा च प्रवरनरपतिसुतस्य स्वभागिनेयस्य जमाले: परिणायिता, तस्यापि शेषवती नाम्नी पुत्री जाता। सा च भगवतो दौहीत्रीत्यर्थः । ततोऽनंतरं भगवतोऽष्टाविंशतिवर्षातिक्रमे पितरौ नुयं स्वर्ग माहेन्द्रं गतौ । ततो वीरः संपूर्णाभिग्रहः सन् नंदिवर्द्धनं ज्येष्ठभ्रातरं दीक्षार्थमनज्ञापितवान् । म गाथातो भणति-जिठूभाया मम जणणीजणयविरहियरस ।। तुहविरहअग्गि सुंदर, सयंवि खारोवमो होई ॥१॥
व्याख्या-ततो वीरं प्रति भणति ज्येप्ठभ्राता नंदिबद्धनः, हे भ्रातः ! जननीजनकमरणदःखितस्य मम | त्वद्विरहाग्निः हे सुंदर ! स्वयमपि क्षारोपमो भवति । विरक्तात्मा स्वाम्याह, गाथा