________________
अहम् ॥
पू.आ. श्री विजयामृतसूरिभ्यो नमः तपागच्छाधिराजश्रीदेवेन्द्रसूरि विरचितः पण्डितश्रीलाभकुशल गणिकृतटीकासमेतः
। श्रीदानादिकुलकसंग्रहः
(सटीकः)
॥१॥
श्री महावीरं नमस्कृत्य, सर्वसिद्धिप्रदायकम् । वक्ष्ये बालावबोधार्थ, दानादिकुलकं वरम् ।।१।।
व्याख्या-दहचेदानादि कुलकानां पूर्वपंडित बहु कथा: सूत्रचरितादेरानीय संयोजिता लिखिताश्च. मयापि मद्बुद्ध्यनुमारेण तेषां कतिचित्कथा: श्री देवेंद्रसुरिकृतमूलगाथाक्रममाश्रित्य प्रारभ्यते.
___ तत्र पूर्व श्रीतीर्थकरेण भगवता चतुर्धा धर्मः प्रकाशितः । स कः चतुर्धा-दानं १ शीलं २ तप: ३ भावनाख्यश्चतुर्विधः । तत्र पूर्व दानधर्मो मुख्यो ज्ञातव्यः, तस्माद्दानकूलकं प्रथम. शासननायकेनासन्नोपकारिणा