________________
१५५१।
इति विचार्य तथा तत्फलं राज्ञे प्राभृतीकृतं । राज्ञा तत्फलमुपलक्ष्य वेश्वायै पृष्टं केन तवेदं फलमपितं ? तयोक्तंभवतः पट्टहस्तिपकेन मम दत्तं । हस्तिपकमाहूय बहुप्रहारांश्च दत्वा यदा पृष्टं तदा तेन मानितं यन्ममानंनसेनया राज्या दत्तमस्ति । तत् श्रुत्वा साश्रर्यदुःखितो राजांतःपुरे गतः । कथितं च तेन राज्यं यदमरफलं समानय । राइया प्रोक्तंतो क्रुद्धेन राज्ञा तस्या कशाप्रहारा दत्तास्तदा तया सत्यं कथितं । अथ राज्ञो वैराग्यमुत्पन्नं कथितं च तेनेदं काव्यं -
यां चितयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च ॥ १॥ अथ तेन चितितं राज्यं पुत्रं विना शून्यमेव त्यक्त्वा योगो गृहीतः पश्वात्तत् शून्यं राज्यमग्निकवीर. वेतालेनाधिष्ठितं । यः कोऽपि गोत्रीयो राज्ये निषीदति स म्रियते । देशांतरगतेन विक्रमेणेयं वार्ता श्रुता । तदासावुज्जयिन्यामागत्य सामान्यवेषेण प्रधानेभ्यो मिलितः । तस्य सत्वाधिक्येन तुष्टैर्मत्रिभिः स राज्ये स्थापितः । अथासौ रात्री निजशय्यायाः परितो बलिबाकुलादीनिक्षिप्य स्वयं जागरमाणः सुप्तस्तावता करालरूपोऽग्निवेतालस्तत्र समागतस्तत्र सुरभिर्वाल वीक्ष्य तत्परिमलं गृह्णन् संतुष्टोऽसौ जगाद - त्वया प्रतिदिन मित्थमेव कर्तव्यमहं तवाभयदानं दास्यामि । इत्युक्त्वा स पचालितः । प्रभाते राजानं जीवंत दृष्ट्वा प्रधानप्रमुखा हृष्टाः | अर्थच तेन दिनत्रयं यावद्वलिदानं कृतं । तृतीयदिने वेतालेन सह प्रीति कृत्त्वा तेन पृष्टं, हे वेताल !
॥५५॥