________________
८.५३॥
चौरोपद्रवतः स्थातुं न शक्यते । राज्ञा दुर्गपालमाहूय कथितं शीघ्रमेव चौरं प्रकटीकुरु । तेनोक्त-स्वामिन् ! स सिद्धविद्यश्वोरो मम वशं नायाति । ततो राजा स्वयं कार्यटिकवेषं विधाय रात्री साधकं त्रिलोकमान एकस्मिन् जीर्णदेवकुले सुप्तः । तदा तत्र चौरः समायातः । पृष्टं च तेन राजः प्रति कोऽसि त्वमिति ? राज्ञोत्तमहं कार्यटिकोऽस्मि । चौरेणोक्तं समुत्तिष्ठ तव दारिद्र्यं खंडयामि । ततोस्ती नगरमध्ये समागतौ । ततश्चोरेण त्रिद्याबलेन कंचिद्धनिनं निद्रां दत्वा तस्य गृहाद्बहुधनं गृहीत्वा राजः शिरसि तद्भारग्रंथि मुक्वा चलितं, रेस्टवीमध्ये भूमिगृहे तद्द्रव्यं स्थापितं.
अथ तस्य चौरस्यैका रूपवती भगिनी वर्तते । तां प्रति तेनोक्तमस्य प्राघूर्णकस्य चरणक्षालनं कुरु । तया तत्रागत्य सुकुमालशरीरं मनोहररूपं च राजानं निरीक्ष्य प्रोक्तं हं सत्पुरुपाहं त्वां राष्ट्वा हृष्टारिम । अत्र चरणक्षालनमिषेण बहवो जना मया कूपमध्ये निक्षिप्ताः संति परं त्वं तूर्णं निर्गच्छ । राजा ततोऽभ्युत्थाय प्रणष्टी गृहे समागतः । प्रभाते राजां नगरमध्ये निःसृतस्तत्र व्यवहारिवेषधर भ्रमंशं तं चौरमुपलक्ष्य सन्मानपूर्वकं निजसभायामानीतवान् दत्ता च तस्मै तेन निजप्रधानपदवी । चौरेणापि रात्रौ मिलतो नृप उपलक्षितः । ततो राजा प्रोक्तं तव भगिनीं मा देहि । चौरेणापि सा राज्ञा सह परिणायिता, त्यवतं च स्वकीयं चौरव्यसनं । कतिचिद्दिवसानंतरं राजाज्ञया तेन सर्वमपि धनं संस्मृत्य संस्मृत्य लोकानां समर्पितं । एवं मूलदेवराजा बहूनां लोकानामुपर्युपकारं कृत्वा सम्यक्त्वादिगुणं निर्मल प्रतिपाल्य दानमहिम्ना देवलोके गतस्ततोऽनुक्रमेण च मोक्षं गमिष्यति ।। इति दानकुलके मूलदेवराजकथा समाप्ता. ।।
114311