________________
।।४९||
रागिण्यप्यस्मि । यादृग्गुणा अस्मिन्मूलदेवे संति तारगुणा कस्मिन्नपि पुरुषे न संति 1 अक्कया प्रोक्तमस्य द्यूतकारकस्य मध्ये गुणानामसंभव एव । अचलस्तु धनिकत्वाद्गुणवानेव । देवदत्तया प्रोक्तमावां तयोः परीक्षा कूर्वः । देवदत्तोक्तया ततोऽकयाऽचलपा ईक्षयष्टिमागिता । तेन तत्क्षणमेवेक्षुभृतशकटं प्रेषितं । देवदत्तयाऽकार्य प्रोक्तंकिमहं हस्तिन्यस्मि? यत्तेनेक्षुशकटं प्रषितं । ततो देवदत्तया दासी प्रेष्य मलदेवपार्श्वे ईक्षयष्टिर्माणिता । तेन चोत्तमेाष्टिमादाय निस्त्वचं च विधाय शकलोकृत्य कर्पूरादिना च संस्कृत्य मनोहरभाजने संस्थाप्य कोमलबखेण चाच्छाद्य तदीशुभाजनं दास्या हस्तेन प्रेषितं । तदा देवदत्तया प्रोक्तं-हे मातः ! पश्य गुण्य गुणिनोरंतरं । अका चमत्कृतापि लोभाथिनी चितयति, यद्ययं मूलदेवोऽत्र नायाति तदा वरमिति विचित्य तयाऽचलाय ज्ञापितां यदि मूलदेवोऽपमानं प्राप्नुयात्तदा स इतो गच्छेत् । अथाचलो ग्रामांतरगमनमिषेण प्रच्छन्नं स्थितः । संध्यायां मूलदेवोऽचलं ग्रामांतरगतं ज्ञात्वा देवदत्तागहे समागतः । अकया संकेतितोऽचलोऽपि शीघ्र तत्रागतः । देवदत्तया 12 मूलदेबो मंचकाधो गुप्तीकृतः । अक्कायाः कथन तो मूलदेग मंचकाध: स्थित ज्ञात्वाऽचलेन देवदत्तायै प्रावतमद्य मम मंचकोपर्यत्र स्नानं कर्तुमिच्छास्तीन्युक्त्वा स पानीय मादाय यावामंचकोपरि सानं कर्तुं लग्नस्तावन्मूलदेवो क्षुब्धः । अचलेन शीघ्र मूलदेवं के शेष्वाकृ-य प्रोक्तमधुना तव किं करोमि ? मूलदेवेनोक्तं यत्तुभ्यं रोचते तत्कुरु । अचलेन चितितमस्य रूपचातुर्यादिभिर्जायते यदयं कोऽप्युत्तमपुरुषोऽस्ति । इति विचार्य तेनोक्तमधुना तु त्वामहं मुंचामि, परमद्यप्रभृति स्वयात्र नागंतव्यं । पुनर्यदि कदाचिन्ममोपर्यपि एताहगापदापतेतहि प्रत्युपकारस्त्वया कार्यः ।
।॥४९॥