SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्री वादनकलातो रंजितया वेश्यया मूलदेवः पृष्टः-किमनेन वीणा सम्यग्वादिता न बा? मूलदेवेन शिरः कंपितं पृष्टान दान दानादि च तया तत्कारणं, मूलदेवो जगौ वंशमध्ये कर्करोऽस्ति । तुंबकावपि सगभौ स्तः । तदा कौतुकतस्तया वीणोकुलकवतिः स्कलिता दृष्ट तन्मध्ये तर्थव पुनस्तां बीणां सज्जीकृत्य मूलदेवेन लथा सा वादिता यथा वेश्या हृष्टा सती - तस्योपरि सरागा जाता । भोजनवेलायां वेश्यया प्रोक्तं-नानाभ्यंगादि कृत्वा भुज्यते, मुलदेवनोक्तं-नेत्तवेच्छा तहि मलदेव कथा ॥४८॥ तव शरीरेऽहं मर्दन करोमि । वेश्यया तम्प्रतिपन्नं । तेन च तस्याः शरीरे तथा मर्दनं कृतं यथा सा कामातूरा सती चितयामास. नूनमयं सिद्ध-परुषो विद्ययैव कुटजीभूतोऽस्ति, ततः शीघ्र मूलदेवेन निजरूपं प्रकटीकृतं । वेश्यात्यत हटा । भोजनानंतरं तांबूलादि भक्षयि:वा स्नेहालापान् वदंत्या वेश्यया तस्मै प्रोक्तं- हे स्वामिनद्यावधि केनापि पुरषेण मे मनो नो रंजितं त्वया चाद्य वशीकृतं । अथ त्वया मम गृहे सदैवागंतव्यं । मूल देवस्तवन स्वीकृत्य प्रतिदिनं तत्रागत्य तया सह विलासं करोति । वैश्यया तम्मै चूतव्यसनत्यागोपदेशो दत्त , परं तेन तन्न Fo! त्यक्तं । एकदा वेश्यया राज्ञः पुरो नृत्यं कृतं । मूलदेवेन च मृदंगो बादितस्तुष्टेन राज्ञा वेश्याय वरमार्गणाय प्रोक्तं, तयोक्तमवसरेऽहं वरं मार्गयिष्यामि । अथ तत्रकोऽचलनामा सार्थवाहो वसति । तेन तथा वेश्यया सह प्रीतिकरणार्थ पूर्वमनेकाभरणादीनि तस्य दतान्यासन । तेन तस्या वेश्याया गृहे मूलदेवागमनं विलोक्य द्वेषं वहताऽकाय तदागमननिषेधाय प्रोक्तं । ततोकिया निजपुत्र्यै प्रोक्तं-विनाञ्चलमन्यपुरुषस्य संग त्वं मा कुरु । वेश्ययोक्तमहमेकांतधनरागिणी नास्मि । गुण ॥४८॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy