________________
।४७1
विहितः । एवं श्रीजिनशासनोन्नतिपूर्वक शुद्धशाद्धधर्ममाराध्यायुःक्षये स देवलोक गतः अनुक्रमेण च मोक्षं यास्यति । ॥ इति दानकुल के श्रीसंप्रति राजकथा ॥
दाउं सद्धासुद्धे, सुद्धे कुम्मासए महामुणिणो । सिरिमूलदेवकुमारो, रञ्जसरि पाविउ गरुआं ।।१४।। व्याख्या-दत्त्वा श्राद्धया भावेन शुद्धान् निर्दोषान् कुल्माषान् महामुनीश्वरस्य, श्रीमूलदेवकुमारो गुर्वी राज्यलक्ष्मी प्रामः । १४॥
तत्कथा चेयं-पाटलीपुधनगरे जित शत्रुराजा, तस्य मूलदेवाभिधः कुमारः सर्वकलानिपुणोऽपि पूर्वकर्मदोषेण द्यूतव्यसनासक्तोऽभूत् । पित्रा बहु वारितोऽपि स तस्मान्न निवृत्तः । तं दुर्व्यसनिनं ज्ञात्वा राज्ञा देशानिष्कासितो भ्रमनुजयिन्यां स गतः 1 मार्ग केनवित्सिद्धपुरुषेण तस्मै रूपपरावर्तनगुणोपेता गटिका दत्ता । तत्प्रभावतोऽसौ वामनरूपं कृत्वा नगरमध्ये परिभ्रमति । अथ तस्मिन्नेव नगरे देवदत्ताभिधकामानिनी गणिका वसति । सा केनापि पुरुषेण साधं न रमते । मलदेवस्तां वशीकर्तुं तद्गृहसमीपेऽत्यंतमधुरस्वरैर्गायनं कर्तुं लग्नः । तद्गानमोहितया वेश्यया तदाह्वानकृते स्वीयैका कुब्जा दासी प्रेषिता । दास्या तत्समीपे समागत्य विनयेनोक्त-युष्मान् मम स्वामिन्याह्वयति । तेनोक्तमहं वेश्यासंग नेच्छामि । दासी तु तमाग्रहेण हस्ते गृहीत्वा चचाल । मार्ग मूलदेवेन विद्याबलेन तस्याः कुब्जत्वं दूरीकृतं । देवदत्तया चितितमेतारकलावतोऽस्य कुब्जत्वं कथं । इतो गतकुब्जतां दासी विलोक्य तया पृष्टं कैन ते कुब्जत्वं दूरीकृतं ? तयोक्तमनेन सुपुरुषेण निजविद्याबलतो में कुब्जत्वं दूरीकृतं । तत् श्रुत्वा हृष्टा वेश्या विस्मयं प्राप्ता तस्य विविधां परिचर्या कर्तुं विनयपूर्वकं लग्ना. इतस्तत्रैक: पुरुषो बीणां वादयन् समागतस्तस्य वीणा
॥४७॥