SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्री दानादिकुलक वृत्ति: 11401 ततो मूलदेवो बहिर्निर्गत्यापमानतो दूनचितयति, अथ मया विदेशे गंतव्यमिति विचार्य स विदेशप्रति चचाल । पथि मिलितेन पृष्टेन नैमित्तिकेन तस्मै प्रोक्तं, बेनातटगतस्य तवोदयो भविष्यति । ततोऽयं तत्र चलितोऽनुक्रमेण द्वादशयोजनी मटवीं संप्राप्तः । मार्गे चेको ब्राह्मणस्तस्य मिलितः मध्याह्ने ब्राह्मणेन स्वपार्श्वयं पाथेयं भक्षितं । किंतु मूलदेवाय स्तोकमपि तेन न दत्तं । एवं दिनत्रयं यावत्तेन द्विजेन तथैव कृतं बुभुक्षितेनापि मूलदेवेन न किचित्तस्मात् मार्गितं । चतुर्थ दिने द्वयोः पंथानी भित्री जाती । तदा मूलदेवेन ब्राह्मणाय तदभिधानं पृष्टं । तेनोक्त- ममाभिवानं निर्घुणशर्मेति । मूलदेवेनोक्तं यदि किचित्कार्य समुत्पद्यते तदा त्वया बेनासटे समागत्य में मूलदेवस्य नाम पृष्टव्यं । अथ मूलदेवस्ततश्चलनेकं ग्रामं प्राप्तो बुभुक्षित ग्राममध्ये भिक्षार्थ गतः । ती भिक्षायां लब्धान् कुल्माषान् गृहीत्वा बहिनंदीतटे समागन्य चितयति यद्यधुना कोऽप्यतिथिः समा गच्छतर्हि तस्मै यत्किचिद्दत्वाहं भोजनं करोमि । इतस्तत्रैको मासोपवासी साधुः समागतः । सचस्तेनाभ्युत्यायादरपूर्वक कथितं हे स्वामिन्निदं गृहीत्वा मां निस्तारय । साधुनाऽतिलाभं ज्ञात्वा तस्मै प्रोक्तं हे महानुभाव ! तस्मात्स्तोकान्नं देयं किं तु शुभभावोल्लसितमानसेन मूलदेवेन ते सर्वेऽपि कुल्माषाः साधुपाने निक्षिप्ताः हृष्टश्व सः 'धन्नाणं खु नराणं | कुम्मासा हंति साहुपारणए' इति द्विपदीमुबरनृस्यति । तदैव वनदेनतया प्रकटीभूय तस्मै कथितं तव सुपात्रदानेनाहं तुष्टा । अस्या गाथाया अग्रेतनपादद्वये यत्त्वं मार्गयिष्यसि तदहं तुभ्यं दास्यामि । ततो मूलदेवेन भणितं 'गणियं च देवदत्तं । हत्थिसहस्सं च रज्जं च देवतयोक्तं तत्सर्व ते भविष्यति । अनु दान कुलकं मूलदेव कथा 114011
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy