SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥४५॥ तत् श्रुत्वा राज्ञा गृहे समागत्य चितितं यद्यहं पुत्राय राज्यं दास्यामि तहि स चारित्रमप्राप्य संसारे भ्रमिप्यति, इति विचार्य तेन निजभागिनेय के शिकुमाराय राज्यं दत्वा बहुपरिवारयुतेन दीक्षा गृहीता । अथ तेनैकादशांगानि पठितानि । कालांतरे शरीरे रोगाः समुत्पन्नाः । स्वाम्याज्ञया विहृत्य वीतभयपत्तने से समागतः । तत्र गोकुले स्थितो दध्याहारं करोति, तेन तस्य रोगोपशांतिर्जाता । एकदा तस्य पूर्ववैरिणा सामंतनाम्ना प्रधानेन केशिनृपयोक्तमयं राजर्षिस्ते राज्यं गृहीतुं समागतोऽस्ति । तद्वचनतो दुष्टीभूतेन राज्ञा गोकुले गत्वा विषमिश्रितं दधि मुनये दापितं । मुनिरपि विषव्याप्तं स्वशरीरं ज्ञात्वा क्षपकश्रेणीमारूढः केवलज्ञानं प्राप्य मोक्षं गतः । ततः कुपितेन देवेन नगरोपरि रजोवृष्टिविहिता, नगरं च तन्नष्ट्म् । इति श्री दानकुलके उदायिराजवि कथा || जिणहरमंडिअनसुहो, दाउ अणुकंपभत्तिदाणाई तित्थभावगरेहां, संपत्ती संपइराया ||१२|| व्याख्या - जिनप्रासाद मंडिता वसुधा कृता येन सः, दत्वा अनुकंपादानं भक्तिदानं च तीर्थप्रभावकरेखां संप्राप्तः संप्रतिराजा ||१२|| अस्य संबंधो यथा - कौशांव्यां नगर्यां श्रीआचार्यमहागिरिभयं सहस्तिनौ समागतौ वर्ष च तद्दुभिक्षमासोत् । श्रावकाच साधूनां बहुभक्ति कुर्वति । एकदा महद्धिक श्रावकस्य गृहे साधवो नानाप्रका राणि भोजनानि गृह्णति, तदा केनापि रंकेण तद् दृष्ट्वा तेषां साधूनां कथितं भो ममाप्यन्नं देयमिति वदन् स तेषां पृष्ठे लग्न उपाश्रये समागतः । गुरुभिर्ज्ञानोपयोगतस्तं लघुकर्माणं भवांतरे च शासनप्रभावकं ज्ञात्वा तस्मै प्रोक्तं - हे भद्र ! यदि त्वं यतित्वमाश्रयसि तदा वयं तुभ्यं भोजनं दास्यामः । तेनापि तत्स्वीकृतं । ततः आर्यसु ॥४५॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy