SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ दान कुलक राज्ञा तत्रस्थपुष्पाणि ग्लानानि दृष्ट्वा सूक्ष्मदृष्ट्या विलोकितं ज्ञातं चेयं मूलप्रतिमा नास्ति । इतस्तेन सुवर्णदानादिगुलिकापि नो दृष्टा । अनिलसिंहस्त्यागभनचिह्नानि दृष्टानि, ततो दागीप्रतिमयोरपहारकं चंडप्रद्योतं जात्वा कुलकम् चतुरंगसेनामादाय स उजायिनीप्रति गतः, तत्र युद्धे चंडप्रद्योतं जीवंतं गृहीत्वा तस्य ललाटपट्टे मम दासीपतिरित्यक्षराणि तेन लिखितानि । ततो यावद्राजा प्रतिमामुत्पाटयति ताबदाकाणे बाणी जाता यद्वीतभयपत्तने रजो उदायन राषि 16 वृष्टिभिविष्यति तेनाहं तत्र नागमिष्यामि । ततो राजा तां वंदित्वा पश्चाद्गतः । पथि मेघे वर्षति तत्र नगर कथा ॥४४॥ स्थापयित्वा स्थितस्तद्दशपुराभिधानं नगरं जातं । अथ तत्र पर्युषणापर्वणि समागते उदायिना पौषधं कृतं । भोजनायाहूतेन चंडप्रद्योतेन चितितमद्यायं मम भोजने विषं दास्यति । इति विचार्य तेन सुदंप्रति प्रोक्त-ममाप्ययोपवासोऽस्ति । तवृत्तान्तं श्रुत्वोदायिना सांवत्सरिकप्रतिक्रमणे तं समिणं क्षामयित्वा तदक्षराच्छादनार्थ पट्टबंध दत्वा बंधनमुक्तः कृतो, गतोऽपि च स निजनगरी । अथोदायिनपोऽपि निजनगरे गत्वा तां प्रतिमा पूजयन् सुखेन । राज्यं करोति । एकदा रानिपोषधे स धर्मजागरिकां कुर्वन् मनसि चितयति-यद्यत्र श्रीवीरप्रभुः समागच्छेत्तदहं चारिणं स्वोकरोमि । वीरप्रभूणापि ज्ञानेन तद्धाभं ज्ञात्वा तत्र विहृतं । मार्गे तृषादिपीडितः पंचदशशतसाधुभिः काल: कृतो जाताच ते सर्वेऽप्याराधकाः । अथ श्रीवीरप्रभौ तत्र समागते सति राज्ञा महताडंबरेण तस्य प्रवेशोत्सवः कृतः । देशनों श्रुत्वा वैराग्यमापनेन राज्ञा हस्तौ नियोज्य कथित-हें स्वामिन् ! भवद्भिरत्रानार्यदेशेऽपि समागत्य ममोपरि महती कृपा विहिता । प्रभणोक्तं हे राजन ! त्वमंतिमो राजर्षिरसि, अत: कृपायोग्य एव । ॥४४॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy