________________
श्रीवीरप्रभोः कल्पवृक्षपुष्पालंकृतां प्रतिमां दृष्ट्वा सर्व शिक्षाः । सानो गृहे समानीय र देवालये स्थापिता । अथ सा परमश्राविका चेटकराजपुत्री प्रभावती राजी तां प्रतिमा प्रतिदिनं त्रिकालं पूजयति । उदायिराज्ञा च तत्प्रतिमापूजानिमित्तं ग्रामं दत्तं, तथापि स तापसभक्तत्वं न जहाति । एकदा तत्पूजां कृत्वा प्रभावती तदने नृत्यति, राजा च वीणां वादयति, तदा राज्ञा तस्या मस्तक नो दृष्टं । तद्वयग्रचित्तस्य राज्ञो हस्ताद्वीणा स्खलिता, तदा राश्या पृष्ट-स्वामिन किमिदं जातं ? राज्ञोक्त-प्रिये ! नत्यंत्यास्तव मया मस्तकं नो दृष्टमधुना तु तद् दृश्यते ! प्रभावत्या चिंतितमथ ममायुः स्तोकमस्ति । पुनरेकदा स्नानांते तया दासीपाचे श्वेतवस्त्राणि मागितानि । तया तान्येवानीय तस्य दत्तानि, परं दृष्टिभ्रांत्या राज्या तानि रक्तानि इटानि, अत: क्रुद्धया तया दास्युपरि स्वादर्श: क्षिप्तो मर्मस्थानप्रहारतः सा मृता । ततो राश्या तान्येन वस्त्राणि श्वेतानि दृष्टानि. पश्चातापपरया राज्या राजे कथितं-स्वामिन्नहं दीक्षां गृहीत्वान शनं करिष्ये । अत्याग्रहेण राज्ञा तत्प्रतिपद्य तस्य कथितं-हे प्रिये ! यदि त्वं देवलोके ब्रजेस्तदा मम सत्यधर्मस्त्वया । प्रदर्शनीयः । राण्या च तत्प्रतिपन्नं । ततः सा दीक्षोपेतानशनं कृत्वा मृत्वा सौधर्मदेवलोके गता । अथ देवदत्ता नाम्नी कुब्जा दासी तां प्रतिमामहनिशं पूजयति । प्रभाबति जीवदेवेन राज्ञः प्रतिबोधायाने के उपायाः कृताः, परं स न प्रतिबद्धस्तदा देवेन तस्मे तापसरूपं विधाय स्वादुफलानि दत्तानि । तथाविधान्यफलप्राप्तिलुब्धकं च राजानं विधाय स तं वाटिकामध्ये समानीतवान । तत्र च तेन बहवस्तापसा विकुविताः । यावदाजा वृक्षाल्फलानि गृहणाति तावत्ते सर्वे तापसास्तं ताडयितुं यष्टिपाणय: प्रधाविताः । प्रणष्टो राजा दूरस्थजैनमुनीनां
।।४१