SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ दान कुलकम् दानादिकुलकवत्तिः उदायि राजपि कथा ॥४२॥ शरणं गतः । साधूभिश्व मधुरवाक्यस्तचित्तं शांतं कृतं । ततो देबेन प्रकटीभूय जैनधर्म तस्य मन: स्थिरीकृतं । शुद्धसम्यक्त्वधारी च स संजातः । देवेन तस्मै कथितं पुनरपि कार्यावसरेऽहं स्मरणीयः । ततः स देवलोके गत उदायी च सुखेन राज्यं पालयति । अर्थको गांधाराभिधः श्रावकोऽनेकतीयांनि वंदित्वा शाश्वतजिनचैत्यवंदनाथं वैताळयसमीपे समागतः, परं तदपरि गंतूमसमथर्थोऽभूत् । तदा तेन प्रतिज्ञा कृता यति शाश्वतजिनचैत्यानां मे वंदनं भविष्यति तदैवाहमाहारं करिष्ये । एवं पंचदिवसानंतरं ततपसाकृष्ट शासनदेवतया तस्य मनोरथः पूर्णीकृतः, दत्ताश्च तस्मै समादिवांछितार्थदा अष्टोत्तरशतग टिकाः । अथ गांधारस्तन्मध्यादेकां गुटिका मुखे प्रक्षिप्य चितितवानह वीतभय पत्तने गत्वा जीवंतस्वामिप्रतिमा वंदेयं 1 एवं चितनत एव स तत्र प्राप्तः, तत्र देवाधिदेवं पूजा मित्रा स्थितः । ततो देवयोगात्म मांद्य गतः । कुरिजकया सार्मिकत्वेन तस्य परिचर्या कृता । परं स्वन्यायुः क्षीण शात्वा तेन सर्वा अपि गुटिकास्तत्प्रभावक्रथनपूर्वकं कुब्जाय दत्वा काल; कृत: । कुब्जिकया गुटिकामेकां भक्षयित्वा रूपं मागितं । तत्कालमेव तस्याः कुब्जवं गतं मनोहररूपं च जातं । ततः सा सुवर्णगुलिकेति नामतः प्रसिद्धा जाता । अथ तया चितितं मे मनोहरं रूपं पुरुषं विना निष्फलं । अयं च राजा मम पितृतुल्यः । ततस्तया चंडग्नयोतनं मनसि कृत्वका गटिका भक्षिता, सदैव चंडप्रद्योतेनापि तस्या रूपं श्रुतं, तदाह्वानार्थं च दूतः प्रेषितः । प्रति सुवर्णगलिकया कथितं त्वमेकामीदृशी नवां चंदनमयीं देवाधिदेवप्रतिमा काग्य । यथा तां नवां प्रतिमामत्र स्थापयित्वा पुरातनी च सार्थे गुहीत्वागच्छामि तदा चंडप्रद्योतः पुनरूजयिनीमागत्य तथारूपां प्रभुप्रतिमां कारयित्वा ॥४२॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy