________________
॥३३॥
यद्भाव्यं तद्भवत्येव । ततस्तया तस्य भक्तिपूर्वकं स्नानं कारयित्वा भोजनं कारितं सुखेन च तो तिष्ठतः । कयवन्नेन निजप्रियां प्रत्युक्त - हे प्रिये ! मयैतावंति दिवसानि तवानादरः कृतस्तत्त्वया क्षंतव्यं । तयोक्तं-हे स्वामिन् ! एष मे कर्मणामेव दोषो न तु भवतः । एवं कियत्कालं तत्र स्थित्वैकदा तेन प्रीयांप्रति कथितं हे प्रिये ! धनं नास्ति तद्वघापारः कथं क्रियते ? तद्विना व गृहनिर्वाहोऽपि कथं भवेत् ? अतोऽहं विदेश धनाजनकुते गमिष्याभि । तत् श्रुत्वा सा कथयति - हे स्वामिन् । यूयं व्रजतेति कथं कथ्यते ? परं युष्माभिः शीघ्रमागतव्यं, अहमपि च गर्भिण्यस्मि । अथ तस्मिन्नेव दिने कश्चित्सार्थो विदेशे गच्छन् श्रुतः, तदा संध्यायां तो दम्पती नगराद्बहिस्तत्सार्थे समागती । ततस्तत्पत्नी तस्मै चतुर्मोदकान् दत्वा तं च मंचके संस्थाप्य प्रणामं कृत्वा गृहे समागता । कयवनो मंचकोपरि सुप्तः सन् प्रमीलां प्राप । अथ तत्र यज्जातं तत् श्रूयतां । तस्मिव राजगृहनगरे कश्चिद्धनवान् व्यवहार्यस्ति । तस्य वृद्धा माता चतस्रो वध्ध्व । अथ तस्यामेव निशायां स व्यव हारी शूलरोगेण मृतस्ततश्चतस्रो वध्ध्वो रोदितुं लग्नाः । श्वशुः कथयति यूयं मा रुदध्वं अपुत्रकस्वाद्राजा धनं गृहिव्यति, एनं मे मृतपुत्रं गर्भायां क्षिपत ? अपरं पुरुषमहं समानयिष्यामि । ततस्ताः कथयंतिस्म हे मातः । कथमयं वार्ता निष्पद्यते ? श्वश्रूः कथयति युष्मासु या काचिद्वदिप्यति तामहं गर्तायां निक्षेप्स्यामि तता भीतास्ताः किमपि न जल्पति । ततः सा ताभिर्वधूभिः सह पुरुषगवेषणार्थ प्रस्थिता, नगराद्वहिः कयवनोति के समागता । मंचकसुप्तं तं समीचीनं पुरुषं दृष्टवा चतुभिर्वधूभिर्मंचकसहितं तमुत्पाट्य स्वगृहे आनीतः । तत्र चंस मंचासु
॥३३॥