________________
॥३१॥
द्वितीयो भवोऽस्ति, धन्यायास्त्वद्यापि स एव भवः । ततो भगवता सर्वोऽपि तत्पूर्वभवसंबंधः कथितः । ततस्ताभ्यां तेनैव दना पारणकं कृत्वा प्रभुमापृच्छय वभारगिरिशिखरशिलोपरि पादोपगमनसस्तारकः कृतः । तदा सुभद्रया द्वात्रिंशद्वधूसहितया प्रभुं वंदित्वा पृष्टं-स्वामिन् मे पुत्रजामातरौ व गतौ ? स्वामिनोक्तं ताभ्यां वैभारगिरावनशनं कृतमस्ति । तत: श्रेणिकसहितया तया तत्र गत्वा तौ वंदिती । तयोस्तथास्वरूपं च हष्ट्वा साऽन्याक्रंदनपूर्वकं रोदितुं लग्ना, हे पुत्र ! गुहागतस्त्वं मया मूढया नोपलभितः । एतादृम्विलापान् कुर्वती तां दृष्ट्वा श्रेणिकेनोक्त -हे सुभद्रे! त्वं तु रत्नगर्भासि तव पत्रो महासुभटो बोराधिवीरो ज्ञातव्यः, अतस्त्वं कातरता मा | कुरु । ततः श्रेणिकसुभद्रे गहमागते । धन्नशालि भद्रावपि मासकानशनं कृत्वा सर्वार्थसिद्धी गती, भवांतरे च मोक्ष गमिप्यतः । धन्नस्याष्टौ त्रियोऽपि संयम प्रतिपाल्य सद्गति गताः ॥ इति दानकुलके शालिभद्रकथा संपूर्णा ॥
जम्मतरदाणाऊ, उद्धसिआपुस्वकुसलज्माणाऊ । कयपुन्नो, कयवनो, भोगाणं भायणं जाऊ ॥१०॥
व्याख्या-जन्मांतरे पूर्वभवे सुपा दान दत्तं तस्मात्, उल्लसित वा अपूर्व मनोहरं कुशलं शुभं ध्यानं तस्मात् कृतपुण्योऽसौ कयवनाभिधो भोगानां भाजनं जातः ।।१०।। अथास्य कथा ।।
__ राजगृहनगर्या श्रेणिको राजा, अभयकुमारो मंत्री, धनावहः श्रेष्ठी, सुभद्रा मार्या, तयोः पुत्रो विनयादि गुणोपेतः कयन्त्रक; । तस्य चित्तं प्रमदाकृतहावभावविभ्रमविलास नुमोदते, परं धर्मशास्त्रपठनपाठनादिपूर्दकं साधु