SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ||२९|| अथ राजा चितयति नूनं धन्योऽयं यस्य पुष्येनेनादृशानि विभूषणानि निर्मास्यानि समुत्तरंति । त तरमध्यात्स्वकीयमुद्रिका तेन गृहीता । स्रानं कृत्वा पवित्रवस्त्राणि परिधाय मुखासने स्थित्वा राजा मुक्त, सुभद्रया च तस्य वहुभक्तिः कृता । ततः श्रेणिकः शालिभद्रद्धिमनुमोदमानो गृहं समागतः । अथ शालिभद्रः संसारादिरक्तोऽभूत् । इतस्तत्र केचित् स्थविरसाववस्तत्र समागतास्तेषां वंदनाथं शालिभद्रो गतो देशनां च श्रुत्वा स पृच्छति हे स्वामिन् । क्रेन पुण्येन शिरसि स्वामी न भवेत् ? गुरुणोक यां निर्मलं चारित्रं पालयति स त्रिजगत्स्वामी भवति । शालिभद्रेणोक्त भगवन् मातरमापृच्छयाहमपि चारित्र गृहिष्यामि । ततोऽसौ गृहमागत्य मातरंप्रति कथयति-अद्य मया धर्माचार्या वंदिताः श्रुतश्च धर्मो रचितश्च मे । मात्रा कथितं - धन्यस्त्वं यस्य श्री तीर्थंकरधर्मो रुचितः । पुनस्तेनोक्तमहं चारित्रं गृहीष्यामि, आज्ञां प्रदेहि । तता दुःखं बहती माता प्राह-हे पुत्र ! चारित्रं विषमं लोहचणकचर्वणोपमं त्वं च प्रकृत्या सुकुमारस्ततः प्रथममत्र गृहे स्थित एव परीषहान् सहस्व, येन ते चारित्रं सुखाराध्यं स्यात् । ततः शालिभद्र: प्रतिदिनमेकैकां भाय त्यक्तुं लग्नः । इतस्तस्मिश्व नगरे शालिभद्रभगिनीभर्ता धनो नामा व्यवहारी परिवसति । एकदा तस्य भार्या धन्नस्य केशप्रमार्जनं करोति तदा स्वकीयभ्रातृवैराग्यवार्तास्मरणतः सा रोदितुं लग्ना धनेन पृष्टं कथं रोदिषि ? तदा तया सर्वा रुदनवार्ता कथिता । तदा धन्नेनोक्तं-तब भ्राता कातरः, तथा प्रोक्त- हे स्वामिन्! तद्वार्ताकरणमेव सुलभं कर्तुं तु दुर्लभमेव । किंच यद्येवं तदा सूर्य कथं न त्यजत ? ततः साहसिना धनोतं हे प्रिये ! एवं ।।२९।। 1
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy