________________
२७)
शत्पेटा नानाभरणानां, यस्त्रिंशत्पेटा वस्त्राणां, त्रयस्त्रिंशत्पेटा: सुगंधद्रव्याणां एवं सदैव नबनवतिपेटाः समुत्तरंति * एवं द्वात्रिंशदंतःपुरीभिः सह स सुखानि भुनक्ति !
अर्थकदा केचिद्व्यापारिणो रत्नकंबलानि लात्वा राजगृहे समागताः । तद्रनकबलमेकमपि श्रेणिकेन चेल्लणाराश्या मागितमपि नो गृहीतं ! राना चाऽगहीते सति अन्येनापि केनापि न गहीतं । ततस्ते व्यापारिणो विपणा जाताः । पश्चात्ते व्यापारिण: शालिभद्रग्रहसमीपे समागताः । सुभद्रया पृष्टं, युष्मत्पाद्यं किमस्ति ? रक्त-रत्नकंबलानि संति । पुनस्तया पृष्टं-किति ? ततस्तैरुक्तं-षोडश । तयोक्तं-स्तोकानि, तरुक्तं-कथं स्सोकानि ? तया प्रोक्तं-मम द्वात्रिंशद्वध्वः संति, कर ये दीयते करयै नो दीयते ? इत्दुक्त्वा तेषां मूल्यं पृष्टं, तरुक्तं-सपादलक्ष. सौर्णिका एककस्य मूल्यमस्ति । तयापि तदंगीकृत्व सर्वाणि रत्नकंबलानि गृहीनानि, तेभ्यश्च यथोक्तं मूल्यं । दत्तं । तद्वृत्तान्तं श्रुत्वा चेल्लणा कुपिता 1 श्रेणिकेन ता तथाभूतां ज्ञात्वा स्वप्रधानाः शालिभद्रगृहे कंबलेकमार्गणाय प्रेषिताः । तैस्तत्र गत्वा सुभद्रापार्श्वे रत्नकवलं मगितं । तयोक्त-मया तु तान्यर्धमधं कृत्वा मे द्वात्रिशद्वधूभ्यः ममपितानि । ताभिश्च स्वचरणक्षालनानंतर तैश्चरणप्रमार्जनं विधाय गहखालमध्ये निक्षितानि । ततो
यदि तजीर्णकंबलेच्छा भवेतहि सुखेन गल्लीत । ततस्तैराश्चर्य प्राप्य श्रेणिकसमीपे समागत्य सर्ववृत्तांतः कथितः । 8 हृष्टेन राज्ञा प्रोक्तं तं शालिभद्रमत्रानीयतां यथाहं तद्दर्शन करोमि । ततो यदा ते प्रधानास्तदानयनार्थ तत्र
समागतास्तदा सुभद्रया कथितं-शालिभद्रस्तु कुत्रापि बहिर्न गच्छति, राजव मद्गृहं पावनं करोतु । ततस्तै: