________________
||२५|
PAR
कृतं । सुखेन राज्यं भक्तवैकलक्षवर्षप्रांते निर्मलचारित्रं प्रपाल्यानशनं कृत्वा मर्वार्थ सिद्धी पंचमेऽनुत्तरविमाने स गतः । तत्र त्रयस्त्रिशत्सागरायुः प्रपाल्य श्रीशांतिनाथो जातः ।। इति श्रीशांतिनाथ पूर्वभवकथा ।।
पंचसयसाहुभोयण-दाणावाजिअसुपुन्नपप्भारो । अच्छरिअचरिअभरिउ, भरहो भरहाहिवो जाउ ।
व्याख्या-पंचशतसाधूनां भोजनदानेनोपाजित: पुण्यप्राग्भारो येन सः, तथाश्चर्यकारिचरित्रेण भत ईदृशो भरतचक्री भरतक्षेत्राधिपो जातः, तत्कथा तु पूर्वमुक्तंब ।।७।। मूलविणावि दाउ, गिलाणपडिअरणजोगवत्थूणि । सिद्धो य रयणकंबल-चंदण विणउवि तम्मि भवे ॥८॥
व्याख्या-मूल्येन विना मूल्यग्रहणं विना दत्वा ग्लानसाधोयावृत्तियोग्य वस्तु मोक्ष प्राप्तो रस्नकंबलगोशीर्षचंदनयोता यो वणिक् तस्मिन्नेव भवे, इयं कथापि पूर्वामुक्तंब ॥८॥
दाऊण खीरदाणं, तण सुसिअंगसाहणो सिग्छ । जणजणि चमक्कारो, संजाउ सालिभद्दोवि ।।९।। व्याख्या-दत्वा क्षीरदानं तपसा सुष्ठ शोपितमंग शरीरं येनेतादृशं साधं, जने जनितश्चमत्कारी येन
EN२५॥ X एतादृशः शालिभद्रः संजातः ।।९।। अथ शालिभद्र-कथा, यथा
राजगृहनगरसमीपे शालिनामा ग्रामोऽस्ति । तत्र धन्ना नाम्नी काचित्स्त्री संगमनामपुत्रेण सह बसति, स र संगमो मेषान् रक्षति चारयति च । तस्य माता तु धनिनां गृहे रंधनपेषणगोमयस्थापनसंप्रमार्जनादिकं करोति । २ एवं तौ स्वकालं गमयतः । अथैकस्मिन् पर्वदिने सर्वलोकगहे क्षीरादिभोजनं जायमानं दृष्ट वा संगमो मातरं