________________
श्री
दानादि
कुलक
वृत्तिः
॥२४८
भवेत् ? तव तु क्षणमात्रा तृप्तिर्भविष्यत्यस्य ज प्राणसंहारो भविष्यति । पंचेंद्रियननाज्जीवो दुर्गति गच्छति । तदा सींचाणको वदति-हे राजन् ! सुख्येव धर्माधर्मविचारं करोति, किंच यथाऽयं पारापतस्त्वच्छरणमागतोऽस्ति तथाहमपि समागतोऽस्मि, अतो ममोपरि कृपां कुरु । यदि त्वमस्य रक्षां करोषि तदा मम प्राणनाशो भविष्यति, एवं च तव कृपा कथं स्थास्यति ? राजा प्राह-यदि त्वं बुभुक्षितोऽसि तदाहं त्वां विशेषसरसाहारं दास्यामि ! चाणकेोमहमामिषं विनाऽन्यन्न भक्षयामि । राज्ञोक्तं मम राज्ये मांसं कुतः ? यदि किचिन्मृतकलेवरं भवि प्यति तदा तस्यामिषं ते दास्यामि । सोचाणकेनोक्तं - जीवत्प्राणिमांसमेवाहं भक्षयामि । राज्ञा प्रोक्तं यावद्वारोsस्य पक्षिणां भविष्यति तावद्भारमितं मम शरीरमांसमहं ते दास्यामि । सोचाणकेनापि तदंगीकृतं । अथ राज्ञा तुला समानीय तदेकपुटे पारापतो मुक्तो द्वितीये च स्वशरीरमांसं छेदित्वा छेदित्वा मुक्तं । परं यथा यथा स मांसं मुंचति तथा तथा पारापतपुटकमधस्ताद् व्रजति । एवं तस्य बहुभारं ज्ञात्वा साहसिको राजा स्वयमेव तुलायां स्थितः, तदा राजः समस्तपरिवारों हाहारवं कुर्वन्नपातं चकार । चियामास चहा अकस्मादनिष्टं कुतः समुत्पन्नं । राजा तु मनागपि चेतसि विषाद न करोति । इतस्तत्र कुंडलाद्याभरणमंडितः कश्विदेवः प्रादु भूयाही सत्त्वमहोसत्त्वमिति वदन् गगनात्पुष्पवृष्टि कृतवान्, प्रोवाच च हे राजेंद्र ! ईशानेंद्रेण तव गुणवर्णनं कृतं, परं तदसहमानेन मयं तत्पक्षिस्वरूपं विधाय तव परीषहः कृतस्तन्मेऽपराधं क्षमस्व । इति श्रामयित्वा देवः स्वस्थानं गतः । राज्ञः शरीरे च सुखं जातं, सेवका अपि सर्वे सहर्षा जाताः राज्ञापि पौषधं पारयित्वा पारणं
दान
कुलकम
शांतिना चरित्र
||२४||