SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रो दानादिकुलक वृत्तिः ।।२६८।। प्राप्नोति । तत् श्रुत्वा राज्या तानि पापस्थानानि परित्यक्तानि । कतिचिद्दिवसानंतरं तया पुनः स्वप्ने स्वर्गसौख्यानि दृष्टानि । तदा राजा पृष्टाः पाखंडिनः पूर्ववदेवासमंजसोत्तराणि ददुस्ततोऽसंतुष्टया राज्या पुनराचार्याः पृष्टास्तैर्दतं च यथास्थितोत्तरं श्रुत्वाऽतीवहृष्टा राज्ञी पप्रच्छ - हे भगवन् ! तानि स्वर्गमुखानि कथं प्राप्यंते ? गुरुणोक्तं सम्यक्त्वयुतशुद्ध चारित्रदेश विरतिपालनेन तानि सुखानि लभ्यते । तत् श्रुत्वा वैराग्यमापन्ना राजी नृपं प्रति कथयामास - हे स्वामित्रस्माद्विविधदुःख कल्लोलोच्छ लित संसारसागराद्भीताहं सयमप्रवहणं स्वीकर्तुमिच्छामि, ततो मामाज्ञां प्रदेहि । राज्ञोक्तं यद्यस्मिन्नेव नगरे स्थिता त्वं मद्गुहादाहारादिग्रहण स्वीकरोषि ताँव तुभ्यमहं । दीक्षाग्रहणादेशं दास्यामि । पुष्पचूलयापि तत्प्रतिपद्य दीक्षां गृहीत्वा तत्रैव नगरे स्थितिः कृता । अथ कालांतरे वृद्धभावतोऽनिवार्यस्य जगद्वयं बलहीनं जाऊं, ततोऽसावपि तत्रैव नगरे स्थितिः कृता । इत आचार्येणागामिकवर्ष दुर्भिक्षयुतं विज्ञाय निजशिष्याः परदेशे प्रेषिताः, वैयावृत्त्यार्थ रक्षितानामपि शिप्याणां दैवयोगेनाभावो जातस्तदा पुष्पचूला साध्वी तस्य वैयावृत्यं करोति । शुद्धभावेन निर्जरापेक्षया सा शुद्धान्नपानीयौषधादीन्यानीय गुरुभ्यः समर्पयति । क्रमेण शुभभावनया साऽशुभकर्माणि छेदयित्वा शुक्लध्यानाथरूढा केवलज्ञानमाससाद | अथ तद्ज्ञानबलेन सा गुरुचित्तचितितमाहारादि तमनापृच्छयैव समानयामास तदा गुरुभिरुक्तं त्वं मया चितितमेवाहरं कथं समानयसि ? तदा तया गुरुवैयावृत्त्यांतरायभयादुक्तं हे भगवन् ! समीपस्थाहं भवतां स्वभावं जानामि । अथैकदा वर्षति मेघे तयाहारः समानीय गुरुभ्यो दत्तस्तदा गुरुणोक्तं हे महा भाव कुलक ध्य कथ ॥२६०
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy