________________
श्रो दानादिकुलक
वृत्तिः
।।२६८।।
प्राप्नोति । तत् श्रुत्वा राज्या तानि पापस्थानानि परित्यक्तानि । कतिचिद्दिवसानंतरं तया पुनः स्वप्ने स्वर्गसौख्यानि दृष्टानि । तदा राजा पृष्टाः पाखंडिनः पूर्ववदेवासमंजसोत्तराणि ददुस्ततोऽसंतुष्टया राज्या पुनराचार्याः पृष्टास्तैर्दतं च यथास्थितोत्तरं श्रुत्वाऽतीवहृष्टा राज्ञी पप्रच्छ - हे भगवन् ! तानि स्वर्गमुखानि कथं प्राप्यंते ? गुरुणोक्तं सम्यक्त्वयुतशुद्ध चारित्रदेश विरतिपालनेन तानि सुखानि लभ्यते । तत् श्रुत्वा वैराग्यमापन्ना राजी नृपं प्रति कथयामास - हे स्वामित्रस्माद्विविधदुःख कल्लोलोच्छ लित संसारसागराद्भीताहं सयमप्रवहणं स्वीकर्तुमिच्छामि, ततो मामाज्ञां प्रदेहि । राज्ञोक्तं यद्यस्मिन्नेव नगरे स्थिता त्वं मद्गुहादाहारादिग्रहण स्वीकरोषि ताँव तुभ्यमहं । दीक्षाग्रहणादेशं दास्यामि । पुष्पचूलयापि तत्प्रतिपद्य दीक्षां गृहीत्वा तत्रैव नगरे स्थितिः कृता ।
अथ कालांतरे वृद्धभावतोऽनिवार्यस्य जगद्वयं बलहीनं जाऊं, ततोऽसावपि तत्रैव नगरे स्थितिः कृता । इत आचार्येणागामिकवर्ष दुर्भिक्षयुतं विज्ञाय निजशिष्याः परदेशे प्रेषिताः, वैयावृत्त्यार्थ रक्षितानामपि शिप्याणां दैवयोगेनाभावो जातस्तदा पुष्पचूला साध्वी तस्य वैयावृत्यं करोति । शुद्धभावेन निर्जरापेक्षया सा शुद्धान्नपानीयौषधादीन्यानीय गुरुभ्यः समर्पयति । क्रमेण शुभभावनया साऽशुभकर्माणि छेदयित्वा शुक्लध्यानाथरूढा केवलज्ञानमाससाद | अथ तद्ज्ञानबलेन सा गुरुचित्तचितितमाहारादि तमनापृच्छयैव समानयामास तदा गुरुभिरुक्तं त्वं मया चितितमेवाहरं कथं समानयसि ? तदा तया गुरुवैयावृत्त्यांतरायभयादुक्तं हे भगवन् ! समीपस्थाहं भवतां स्वभावं जानामि । अथैकदा वर्षति मेघे तयाहारः समानीय गुरुभ्यो दत्तस्तदा गुरुणोक्तं हे महा
भाव
कुलक
ध्य
कथ
॥२६०