SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ॥२६७11 भव्यकमलवनानि विकासयन् अनादिकालमोहनिद्रागतजंतून विनिद्रीकुर्वन् कूटदर्शनिघूकंगणान् गिरिकंदरगतान् बुर्वअनुक्रमेण गंगातटे पुष्पभद्रपुरे समागतः । अथ तत्र नगरे पुष्पकेतुनपस्य पुष्पवतीराश्यक युगलं प्रसूतमभूत् । तस्य युगलस्य च पुष्पचूलपुष्पचूला त इति नाम दत्तं । यौवनं प्राप्तयोस्तयो: परस्परमतीवस्नेहत्वेन राज्ञा विवाहो विहितः । अतो दुःखिनी पुष्पवती वैराग्येण दीक्षा जग्राह । निर्मल चारित्र च प्रतिपाल्य सा देवोऽभूत् । अथ पुष्पकेतुराज्ञि मते सति पुप्पचूलो नृपोऽभवत् इतः पुष्यवतीराज्ञीजीवदेवेन निजतनयां पुष्पचूलामासन्न सिद्धिका ज्ञात्वा तस्य प्रतिबोधार्थ स्वप्ने नरकदुःखपीड्यमाना नारका: प्रदर्शिताः । तत्स्वप्नदर्शनतः संभ्रांतया राज्या निजभरग्ने स वृत्तांतो निवेदितस्तदा राज्ञा तन्निमित्तं शांतिकर्म कारितं । परं द्वितीय दिनेऽपि राश्या तथैव स्वप्नो दृष्टास्तदा राजाऽनेकपाखंडिकानाहय नरकस्वरूपं पप्रच्छ । तेषु कश्चिद्गर्भावासरूपं कैश्चिच्च दारिद्रयरूपं कैश्चिच्च बंध्यत्वरूपं प्रोक्तं परं पुष्पवस्या स्वप्नदृष्टं नरकस्वरूपं कथयितुं कोऽपि शक्तो न बभूव । तदा राजानिकापुत्राचार्यमाय नरकस्वरपं पृष्टवान् । तदा गुरुणा तद्यथास्थितं नरकस्वरूपं निवेदितं । तत् श्रुत्वा चमत्कृता पुष्पचूलोवाच-हे भगवन् । युष्माभिस्तत्स्वरूपं कथं ज्ञातं ? गुरुभिरुक्तं श्रुतज्ञानेन तत्सर्वमपि ज्ञायते । तदा राश्या पुनः पृष्टे हे भगवन्नेवंविधं गरकदुःखं केन कर्मणा प्राप्यते ? गुरुभिरक्त महापरिग्रहपंचेंद्रियवधमांसाहारादिभिमहापापैः प्राणी पूर्वोक्त भरकदुःखं ।।२१७
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy