________________
11२५९|
परमधुना पारणावसरे कथनतस्तस्य क्रोध: प्रादुर्भविष्यति, ततः प्रतिक्रमणवेलायां चेदसौ विस्मरिप्यति तदाह तस्यंतस्मारयियामीति विचित्य स मोनमाधाय स्थितः ।
अथ संध्यासमये सर्वेऽपि मनयः प्रतिक्रमित लग्नाः, आलोचनासमये च सर्वेनिज निजपापमालोचितं, परं तेन तपस्विना मंड़कीघातपापं नालोचितं । तदा सरलमानसेन क्षलकेनोक्तं भो पूज्य ! अद्य यदावामाहारार्थ गतौ तदा भवत्पादतले मंडको भूता, ततस्तःसंबंबिधापमालोचयध्वं । तत् श्रुत्वातीवकुपितोऽसौ तपस्वी मुनिः प्रोबान रे मढ ! ईर्यापथिकोशोधनपूर्वकं गच्छतो मम पादतले मंडुकी कुतः समायाता ? ततोऽनृतवचनजल्पाकस्य तव तत्फलं दर्शयामीत्युक्त्वा स क्रोधांध: पट्टकमादाय क्षलकमारणाय धावितः, परं सूचिभेद्योपाश्रयमध्यस्थांधकारे तस्य शिरः स्तंभेनास्फाल्य भग्नं । मृत्वा स प्रचंडो दृष्टिविषसो जातस्तत्र तस्य कथंचिजातिस्मरणज्ञानं समत्पन्नं तनश्व तेन चितितं धिग्मभेदं क्रोधफल समदभूत मतोऽस्मिन् भवेऽहं कदाचिदपि क्रोधं नो करिष्यामि, प्रासुकाहारं च भक्षयिष्यामि, देवश्च मे वीतरागः, ससाधून गरु: केवलि प्रणितधर्मश्च मम शरणमिति सम्यक्त्वयुता प्रतिज्ञा विधाय दिबसे निजमुखं च बिलमध्ये निक्षिप्य स तिष्ठति, रात्री च प्रासुकाहारं गवेषयित्वा भक्षयति ।।
___ इतस्तुरभिणीनगर्यधिपकुंभाख्यनृपस्य ललितांगनामा पुत्रः सर्पविषेण मृतः । तदा क्रुद्धेन राज्ञा लोकेभ्य आदिष्ट, गद्यः कोऽपि कमपि सर्प मारयित्वानिष्यति तमहं दीनारमेकं दास्यामि | द्रव्यलोभाभिभूता लोका दृष्टिपथमायातान् सर्वानपि सर्पान मारयित्वा नपाने समानयंति । इतो बिलमध्यक्षिप्तमुखस्तपस्विमुनिजीवरूपोऽसौ
IN