________________
चीर्यानयन कृते तपोवनगतया वेश्यया समागत्य सकलोदंतपूर्वक राज्ञे निवेदितं-स्वामिन् स भवदनुजोऽस्माभिः सह । यावटवागतं प्रचलितस्तावल्पणे समागच्छंत सोमचंद्रषि दृष्ट्वा वयं भीताः प्रणश्यात्र समागताः । सोऽप्यस्मान
गवेषयितुं बने एवं भ्रमन् भविष्यति । तत् श्रुत्वा राजातीवखेदमापनश्चितयामास-धिग्मा मया पितापुत्रयोवियोग: 1॥२४९॥
कारितः । किं चैकाकिनो बने भ्रमतो मम भ्रातुरपि का दशा भविष्यतीति, चितया दुःखीभूतो नपो नगरे नत्यगानादि निवारयामास । नगरलोका अपि सर्वे शोकातरा जाताः । | इतो निजकर्णशूलतुल्यं मृदंगध्वनि श्रुत्वा राज्ञा पृष्टं यत्र समये कोऽस्ति स सुखी यस्य गहे वादिननादो जायते ? मंत्रिभिस्तच्छुद्धिकरणानंतरं द्रुतमेव सा वेश्या नृपसमीपे समागत्यावदत् हे स्वामिन् ! पूर्व ममैकेन नैमित्तिकेनोक्तं यत्तापसवेषभृन्कोऽपि कुमारस्तव गहे समेष्यति तस्मै त्वया स्वपत्री परिणायितध्या । सोऽद्य तथोक्तः
कुमारो मम गृहे समायातस्तेन मम गृहे विवाहमहोत्सवे मदंगादिवादित्राणि वाद्यते । भवतां च दु:खं मया न 18] ज्ञातं, तन्मेऽपराधं यूयं ममोपरि कृपा विधाय क्षमत ।
अय राजा तापसमारनामतो विस्मितस्तस्य शुद्धयर्थं पर्व तपोवनप्रपितबेश्यां तर प्रेषयामास । सापि तत्र रत्वा तमुपलक्ष्य हृष्टा द्रुतं पश्चादागत्व राजा बपियामास-हे स्वामिन् । स एव तवानुजो वर्तते । तत् श्रुत्वातीवानंदितो भूपः स्वयं तस्य सन्मुखं गत्वा परिणीतभार्यासहितं तं हस्तिस्कंध समारोप्य बहुमहोत्सवपूर्वक निजगहे समानयत् । अथ क्रमेण स वल्कलचीर्यपि सर्वसंसार स्थितिनिपुणो जातः । राजा चान्या अपि बह्वयः