SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 1XI भाव श्वी दानादिकुलकवृत्तिः ॥२५०11 प्रसन्न कथा कन्यास्तस्य परिणायितास्ताभिः सह सोऽनेकविषयसुखानि भनक्ति । अथ सोमचंद्रषिर्वल्कलचीर्यन्वेषणकृते सकलेऽपि वने पर्यटन मकरोत् । किंतु कुत्रापि तमलळ्या खिन्नो निवृत्त्य पश्चानिजाश्रमे समागत्य पुत्रविरहदुःखीतोऽनेकविधान विलापान कुर्वन्नधीबभूव । कत्तिचिदिवसानंतरं प्रसन्नचंद्रराज्ञा निजप्रधान मुखेन स्वपित्रे संदेशः प्रेषितो यद्वल्कल चोरी मम समीपे कुशलेन वर्ततेऽतस्तद्विषया चिंता न कर्तव्या । तत् श्रुत्वा सोमचंद्रर्पः किनिदुःख स्वल्पीभूतं । अथ द्वादशवर्षानंतरमेकदा रात्री जागृतो वल्कलचीरी मनसि चितयामास-यद्धिगस्ति मां कृतघ्न प्रति, यद्यन पित्राहं बाल्ये एब मृतभातकोऽनेककष्टसहनेनापि पोपयित्वा वर्ग तस्तम्य मे वृद्धपित: सेवावसरेऽहं तं वनमध्ये एवं त्यक्त्वाऽत्र विषयमूखनिमग्नीभुय स्थितोऽस्मि । अतः प्रभाते एव भ्रातरमापच्छ्याहं तपोवने गत्वा पितुपादपरिचर्यापरो भविष्यामीति विचित्य भाते तेन भपाय प्रोक्तं-हे भ्रातः ! संप्रति मम पिश्चरणेक्षणाभिलापो वर्तते तत् श्रुत्वा प्रसन्नचंद्रेणाप्युक्तं-है भ्रातर्ममापि स एवाभिलाषोऽस्ति । अथ तो द्वापि भ्रातरौ निजसैन्ययुतो ततश्वलितो । तपोवननिकटे समागत्य ती पादचारिणौ तपोवनमध्ये प्रविष्टौ। तदा वल्कलचोरी पूर्व तपोवनविविधप्रदेशेषु चिरकालानुभूतबाल्य केलीसौख्यं संस्मृत्य प्रसन्नचंद्र प्रति कथयामास । हे भ्रातस्त एवैते बिल्वादिवृक्षा यत्राहं कपिवदारूढोऽने कफलान्यविदम् । नान्येवेमानि सरांसि येषां स्फटिकनिर्मलसलिले मया हसलीलानुभवो विहितः । त एवेमे हरिणा यः सह मया चिरकालं यावत्कोडा कृताभूत् ।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy