SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तदा भरतस्य पंचशत पुत्रसप्तशतपौत्रौश्च दीक्षा ग्रहीता । पुंडरीक-प्रमुखाश्च-तुरशीतिगणध राः स्थापिता: । ब्राह्मी प्रमुखाभिरपि दीक्षा गृहीता, श्रेयांसप्रमुखाः श्रावका जाताः, सुभद्रा--प्रमुखाश्च श्राविका बभुवः, भरतेनापि सम्यक्त्वं स्वीकृतं । ततम्तेन प्रभु बंदित्वा गृहे समागत्य चक्ररल-स्याष्टाह्निकामहोत्सवः कृतः । ततः सुषेणं सेनानी कत्वा तेन षखण्डानि साधितानि । गगोपकंठे गंगादेवी-गहे च स सहस्रकवर्ष यावस्थितः । नवनिधाननानि मासानि, अनुऋोग मागरम राज्याभिषेकः कृतः, परं चक्ररत्नमायुधशालायां न प्रविशति । तदा भरतेन 61 प्रधानादिभ्यश्चक्ररत्नाप्रवेशकारणं पृष्टं । तैः कथित-हे स्वामिन् । भवदीय नवनवतिभ्रातरो यदि भवदाज्ञामंगीकृत्य भवंतं प्रणमिष्यति तदेव चक्ररत्नमपि प्रविक्ष्यति । तदा भरतेन स्वाज्ञास्वीकारकते तेभ्यो दुताः प्रेषिताः, ततस्तेऽष्टनवतिभ्रातरः संमील्य स्वामिपार्श्वे समागताः, स्वामिनं बंदित्वा च कथयामासुहें स्वामिन् । भरतेन साधं वयं कि युद्धं कृमों वा प्रणाम कुर्मः ? भगवता तु धर्मोपदेशो दत्तः, तत् श्रुत्वा वैराग्य-मामाद्य तैः सर्वर्दीक्षा गृहीता. ___ अथ बाहुबलिना तां वाती श्रुत्वा दुःखमापनेन भरताय कथापित-त्वयतदयुक्तं कृतं । तदा भरतेन कथापित-स्वमपि मम सेवां कुरु ? नो चेद्राज्यं त्यज । वाहुबलिस्तां वार्ता नांगीकरोति, ततश्चक्रमापि गृहे न प्रविशति । ततो भरतेन बाहुबलिप्रति दुतं प्रेषयित्वा चतुरंगसेनासहितेन बाहुबलि-देशविजयार्थ प्रस्थानं कृतं ।। बाहुबलिरपि सैन्यसहितः सन्मुखमागतः । अनेकानि युद्धानि जातानि, बहुमनुष्याणां संहारश्च जातः, तदा सौ ॥२ ॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy