SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ तपः कुलकम् दानादिकुलकवृत्तिः श्रीविका कुमार कथा ॥२३२॥ जिनमतानुरागिण्या रायोक्त मम रथोऽग्रे यास्यति मिथ्यात्विन्या चोक्तं मे रथोऽग्रे गमिष्यति । तयोविवादं विज्ञाय राज्ञा ते द्वे अपि तत्कार्यतो निवारिते । अथ महापद्मो निजमातदुःखं विज्ञाय परदेशे गतस्तत्र च चक्ररत्नोत्पत्त्यनंतरं तेन षट्खंडानि साधितानि । क्रमेण चक्रवत्तिनः सकलसमृद्धियुक्तोऽसौ हस्तिनागपुरे समायातः । स्यातश्च स नत्रमश्चक्रवर्ती । पद्योत्तरराज्ञा तस्मै राज्यं दत्वा निजपुत्रविष्णुकुमारेण सह श्रीसुव्रताचार्यसमीपे दीक्षा ग्रहीता। अनुक्रमेण षट्सहस्रवर्षानंतरं विचित्रतपोविधानतो विणकुमारमुने क्रियाद्यने कलब्धिः समुत्पन्ना। अथात्र हस्तिनागपुरे नमुचिमंत्रिणा विन यादिगुणेन चक्रवर्ती वशीकृतः । संतुष्टन चक्रिणोक्त त्वं दरं मार्गय ? न मुचिनोक्तं कदाचिदवसरेऽहं वरं मार्गयिष्यामि । अर्थकदा श्रीसुव्रतसुरयो हस्तिनागपुरे समागत्य चक्रिण आग्रहेण चतुर्मास स्थिताः । विष्णुकुमारमुनिश्च मेरुपर्वतोपरि चतुर्मासं स्थितः । अथ तान् सुव्रतसूरीस्तत्र चतुमसिं स्थितान् ज्ञात्वा नमचिना पूर्ववरं संस्मत । ततोऽसौ चक्रिपार्श्वे समागत्य निजपूर्ववरदानमार्गणपूर्वकं कथयामास-हे स्वामिन ! मां समदिनं राज्यं समर्पय । राजा तं राज्यं समय निजांतःपुरे तस्थौ । अथ नमुचिः सर्वदर्शनेनः समाहूय कथयामास-यूयं सर्वेऽपि मम वंदनं कुरुत । भीतः सर्वैरप्यन्यदर्शनिभिस्तस्मै वंदनं कृतं । ततोऽनेन सुवतसूरयोऽपि तत्कार्यक रणाय समाहूताः । सूरिभिरुक्तं दयं मुनयः केषामपि गृहस्थानां प्रणामं न कुर्महे । तदा मंत्रिणोक्तं-तहि सम भूमि द्रुतं त्यजत । सूरिभिरथ स नमुचिरुपलक्षितः । नमुचेरनयतः संघोऽपि | ॥२३२
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy