________________
तपः
दानादि
कुलक
वत्तिः
॥२२॥
कशादिप्रहारबहताडितस्तथापि सोऽग्ने न चचाल । ततोऽसी धूर्त: खिन्नः सन्प्रभाताद गश्व तुत्रव मुक्वा पलायित: । प्रभाते समागतोष्ठी निजाश्वं कशाप्रहारांकितशरीरं विधुरं च विज्ञाय धृतस्य तस्य दौर्जन्यं हृदि ध्याय- |
कुलकम | स्तदादितः सावधानो बभूव । ततो हे कामिनि ! अहमपि सोऽश्व इव सन्मागंगाम्यस्मि ।
अथ कनकश्रीरुवाच-हे स्वामीन् ! भवतः कुलपुत्रवत्कदाग्रहो लग्नोऽस्ति । यथैकस्मिन् ग्रामे कश्चिदेको । महामखं: कुलपुत्रो वसति । तस्मै तन्मात्रैकदा शिभितं-हे वत्स ! त्वं चापल्यं मुंच? किमपि कार्य गृहीत्वा
बुकम नैव त्यक्तव्यं । तेनापि तदंगीकृतम् । अर्थकदा स चतुष्पथे गतोऽमा, तत्र वहयो नगरलोका निज निज कार्यकृते । गमनागमनं कुर्वति 1 इतः कस्यैकस्यापि रजकस्य रासभः प्रणष्टस्तदा दूरादेव रजकेण लोकानुद्दीश्य पूत्कृतं यदेपो में रासभो गृहित व्यः, तत् श्रुत्वा तेन कुलपुत्रेण धावमानस्य तस्य लांगूलं हस्ताभ्यां गृहीतं । रासभेन बहवः पादप्रहारास्तस्मै दत्ताः, परं मातवचनं स्मरमाणेन तेन सन्न मुक्त, लोकबहधा निवारितोऽपि म तत्कानि विरराम । अथ रासभपादप्रहारतस्नस्य तुंड दशनविहीनं जातं । मस्तकादपि रुधिरं निस्सन प्रांते पतितोऽसौ गहमागतो दुःखी वभूव । ततो हे स्वामिन ! त्वमपि कदाग्रहं मा कुरु ।।
अथ जंबू कुमारेणोक्त-हे कामिनि ! सोल्लकब्राह्मणवदहं स्वार्थे ग्रथिलो नास्मि । यथा बसंतपुरे सोमदत्तविप्रपुत्रः सोल्लकनामा जन्मदरिद्री बभूव । तस्मिन्नव नगरे कामपताकाभिधैका वेश्या यौवररूपलावण्याद्युपेता | वसति । तया सहानेकधनिकपुत्रा: स्पर्द्धयाधिकाधिकधनदानपूर्वक विलासान् कुर्वति । अथैकदा कामपीडितस्य