________________
1२२७
सोल्लकस्यापि तया सह बिलासकरणाभिलाषो जातस्ततोऽसौ भिक्षाधिगतधान्यमादाय तस्याः पावे समागत्य तद्धान्यदानपूर्वकं बिलासार्थं याचनामकरोत् तयोक्तं वं मम गृहकर्म कुरु । तत: कदाचिदहं तवाभिलापं पूरयिष्यामि । तदप्यमौ प्रतिपद्य नित्यं तस्या गहे पानीयं समानयति, धान्यानि दलयति, शय्यां च सम्यकरोति, उच्छिष्टभाजनानि च माजयति । एवं गहकर्म कुर्वता तेन कतिचिदिवसानंतरं तस्य भोगप्रार्थना कृता । तदा तया स निजसेवक: कुट्टयित्वा गृहाबहिनिष्कासितो निजकार्यादपि भ्रष्टीभूय दुःखी बभूव । ततो हे कामिनि ! स इवाहं मों नास्मि ।
अथ सप्तमी कनकवतो जजल्प हे स्वामिन् ! मासाहसपक्षिवत्त्वं साहसं मा कुरु ? यथा कश्चिदेकः पक्षी वननिकुंजे सुप्तम्य व्याघ्रस्य दशनस्थानि मांसखंडानि भक्षयति, उड्डीयोडीय च वृक्षोपर्युपविश्य 'मासाह सेति' पुनः पुनर्जल्पति । तथा हे स्वामिन् ! त्वमपि केवलं मुखेनैव विषयसुख तिरस्कारं करोषि, मनकि, मनसि तु तेऽधिकाधिक सुखाच्छा ज्ञायते ।
अथ जंबूकुमारेणोक्तं हे कामिनि ! त्वमप्येका कथां शृण ? वसंतपूरे जितारिनामराजा । सोमदत्ताभिधश्च पुरोहितः । तस्य पुरोहितस्य पर्वमित्रनमस्कारमित्रनित्यमित्राभिधा यथा नामास्तथागुणास्त्रयः सुहृदोऽभवन् । अर्थकदा तस्मै सोमदत्ताय राजा कुपितस्तदा स सहायार्थ नित्यमित्रपार्श्व समागतः, परं नपभीतेन तेन तस्य सहायो न दत्तः । पर्वमित्रेणापि तथैव कृतं । अथासो विषण्ण: सन् प्रणाममित्रपार्श्व गच्छन् पथि चितयितुं
X॥२२७॥