________________
धरपदवी स्वीकुरुतं । ततस्ताभ्यामपि तद्वचोंगीकृतं । ततो धरणेद्रेण प्रज्ञमीप्रमुखविद्यास्ताभ्यां दत्ताः। नमिविनमी । स्वामिनं प्रणम्य स्वस्बपरिवारमादाय बैताढये समागतौ । तत्र दक्षिणश्रेण्यां नमिराज्ञा पंचाशनगराणि वासितानि, विन मिना चोत्तरश्रेण्यां षष्ठिनगराणि वासितानि । (तेषां नगराणां नामानि श्रीहेमचंद्रसूरिकृत श्री आदिनाथचरित्राद् शेयानि) अथ भावानाहारार्थ सर्वत्र परिभ्रमति । परं कोऽपि न ददाति । एवं वर्षेकं जातं परं I प्रभुर्मनसापि न क्षुब्धः । अथ भगवत आहाराधिकारमाह
तस्मिन् समये वाहबलेः पुत्रः सोमयशा गजपरस्य राज्यं पालयति । अथ पूर्व भगवज्जीववज्रनाभचक्रिणो Xयः सुयशानामा सेनानी रभूत, तेनापि बज्रनामेन सह दोक्षा गृहीतासीत् । चारित्रं प्रपाल्य पंचमेऽनुत्तरविमाने :
गतः । तत्र विगदायुर्भत्क्वा स सोमयशसः श्रेयांसनामा पत्रो जातोऽस्ति । अथ श्रीऋषभस्वामी विहरन् । 0] सन् गजपुरे समागतः । गृहे गहे लोका अनेककन्यासुवर्णमणिमुक्ताफलादीनि ददति परं स्वामी किमपि न गृहन् ।
पश्चाव्याघुटयति । ततो गवानस्थस्य श्रेयांसकूमारस्येतादृशं भगवरस्वरूपं वीक्ष्य जातिस्मरणमुत्पन्नं । अथ तस्यां | IM निशायां श्रेयांसेन सोमयशसा सुबुद्धिनाम्ना नगरीष्ठिना च स्वप्नानि लब्धानि । प्रातः काले सभायां तैः स्व
स्वस्वप्नानि कथितानि । सोमयशसा राज्ञा प्रोक्तं वैरिभिर्वेष्ठितोऽहं श्रेयांससाहाय्येन वैरिणोऽजयं । सुबुद्धिष्ठिना प्रोक्त ऋयमाना सूर्यकिरणा मया श्रेयांसहस्तसाहाय्येन रक्षिताः। श्रेयांसेनोक्तं-मेरुपर्वतो मयाऽमृतेन धौतः । तदा राज्ञा प्रोक्तं-त्रीण्यप्येतत्स्वानफलानि श्रेयांसाय भविष्यति । श्रेयांसोऽपि हृष्टः सन् गृहे समायातः । इतश्च मध्या