SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ॥२२१।। नगरात्प्रणश्य तत्र देवकुले लीनो वेष्टितं च देवकुलमारक्षकः । अथ तमसि राशी चौरशरीरं सुस्पर्श विज्ञाय तं प्रति कथयामास - भो सुभग ! चेत्त्वं मां स्वीकरिष्यसि तदाहं त्वां जीवंतं रक्षयिष्यामि । चीरेण तत्प्रतिपन्नं । कामवशीकृतहृदयया राज्ञ्यापि निजः सर्वो वृत्तांतस्तस्मै गदितः अथ प्रभाते आरक्षका मध्ये प्रविश्य तत्र चैकां स्त्रियं पुरुषद्वयं च दृष्ट्वा स्त्री यं प्रत्यपृच्छन् - एनयोर्मध्ये कश्वरोऽस्ति ? राश्या मेंठो दर्शितः, ततस्तैर्नृपादेशतो मेंठोऽसौ शूलिकाग्रे निक्षिप्तो, जिनदासभावककथनेन च नमः कारं स्मरन् मृत्वा देवीभूतः । अथैतवीरता राज्ञी प्रस्थिता । पथि चैका जलपूर्णा नदी समागता । तदा चौरेणोक्तं तव वस्त्राभूषणादि मम समर्पय । यथाहं तत्सर्वं परतीरे मुक्त्वा पश्चादागत्य गताधिकभारां त्वामुत्पाट्य परतटे गच्छामि । तदा राज्ञ्यामि नग्नीभूय तत्सर्वं तस्मै समर्पितं । चौरोऽपि तद्ग्रंथि शिरस्यादाय महाका टेन परपारं प्राप्तो विचारयति यन्नदीमूलप्रदेशे नूनं मेघवृष्टितो नद्यां जलमधिकाधिक समायाति तेनाथ नदीमध्यप्रवेशो ध्रुवं ममाकालमरणायैव भविष्यति । किंच नृपठयोः प्रत्यपि प्रीतिवश न जाता सा मयि प्रीतिभाजनं कथं भविष्यतीत्यादि विचित्य ग्रंथिमादाय म चलितस्तदा राज्ञ्या पूत्कारं कृत्वा रुदितुं प्रारब्धं । तदा पथि गच्छना चौरेणोक्तं- हे भामिनि ! साक्षात्पशाचिनीमिव त्वां ननिकां दृष्ट्वाहं विभेमीत्युक्त्वा स ततः पलायनं चकार । अथ तटिनीतटस्था सा नग्ना शीतकंपितदेहाऽनेकविधान् विलापांश्चकार । इतो देवीभूतो मेंठस्तस्या: ।।२२१॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy