SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्री दानादिकूलक तपः कुलकम् वृत्ति: जंबुकुमार कथा ॥२२०। समुत्तारिता । तत्र मेंठेन सह भोगविलासं विधाय तथैव हस्तिशुंडाप्रयोगेण गवाक्षे समागत्य सा निजालये शयनीये सुप्ता । तद् दृष्ट्या स्वर्णकारेण चितित यदि राजगृह प्येताहगकार्य भवति तहिं मम गृहस्य तु का वार्ता ? इति चितयत: शांतीभूतचित्तस्य तस्य सुखनिद्रा समागता । प्रभातेऽपि तमजागृतं ज्ञात्वा राज्ञा निजसेवकेभ्यः कथितं यदि स गतनिद्रो भवेत्तदा मम पार्श्वे समानीयः ।। अथ प्रहरानंतरं गतनिद्रोऽसौ सेवक राजोऽने नीतः । राज्ञा च तस्य गाढ़ा ग्रहेण निद्राकारणं पृष्ट । तदा तेनाभयदानमार्गणपूर्वकं सर्वोऽपि निशावृत्तातो राज्ञोऽने निवेदितः । तत् श्रुत्वा कुपितेन राज्ञादिष्टं गज मेंठसहितेयं राज्ञी वैभारगिरितः पातयित्वा व्यापादनीया । अथ मेंठेन स गजो वैभारशिखरोपरि समानीतः स्थापितश्न विपदः, तदा लोकै, राजे विज्ञप्तिः कृता, स्वामिन् ! शिक्षितोऽसौ गजो रक्षणीयः । किं तु राज्ञा तन्न स्वीकृतं, तदा मेंठेन स द्वाभ्यां पदाभ्यां स्थिरीकृतस्तथापि राज्ञः कोपो न शशाम । प्रांते चैकपदस्थितं गतं विलोक्य लोकानामप्यस्याग्रहं विज्ञाय गजरक्षणपूर्वकं राज्ञा राज्ञीमेंठयोर्वधः समादिष्टः । अथ तं गजं गिरिशिखरादुत्तारयितुं कोऽपि समर्थों नाभूत, तदा तेन मठेनोक्त-हं स्वामिन् ! चेदावयोरभयदानं मिलत्तदाहं तं गजं कुशलेनाध उत्तारयामि । राशा तत्स्वीकृतं, तासौ शनैःशनैः कुशलेन तं गजं गिरितः समुत्तारयामास । ततो राशा तावभयदानपूर्वक देशान्निष्कासितौ । अथ तो ततो निःसृत्य रात्री नगरस्यैकस्य समीपे समागत्य बहिरेव कस्मिविद्देवकुले स्थिती । श्रांतस्य मेंठस्य निद्रा समागता, इतश्चैकश्वोरो
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy