________________
॥२१९॥
प्राप, घटिकाद्वयानंतरं कुटिलया तया स्वामिनं गतनि विधाय कथितं हे स्वामिन् ! तव कुलेऽयमाचारोन शोभते, यत्त्वया सह सुप्लाया मम पादान्नूपुरं गृहीत्वा तव पिता गृहमध्ये गतः एवंविधश्चायं दुर्बुद्धिर्नूनं प्रि मच्छिरसि केलंकं दास्यति । देवदिनोक्तं - हे प्रिये ! त्वं विषादं मा कुरु ? अहं मम पित्रे सत्यं कथयिष्यामि । अथ प्रभाते देवदिलेन निजपितरं प्रत्येतद्विषये उपालंभो दत्तः । पित्रा बहु कथितं तथापि तेन न मानितं ॥
अर्थात विवदमानो दृष्ट्वा खीचरित्रकदक्षया दुगिलया कथितं नूनमहमद्य शोभनयक्षस्य पादाभ्यां निःसृत्य स्वसतीत्वं प्रकटीकरिष्ये । इत्युक्त्वा सा पूजोपकरणयुता यक्षमंदिरं प्रति चलिता । लोका अपि तत्कुतूहलेक्षणकृते तत्र बहवो मिलिताः । इतः स जारो ग्रथिलीभूय पथ्येव लोकेषु पश्यत्सु तामालिलिंग । तथा च निर्भत्स्यं स दूरीकृतः । अथ तथा यक्षाये समागत्योक्त-हे यक्ष ! मया मे भर्त्तारं तथैवाधुना स्पृष्टमेतं प्रथिलं विनान्यस्य कस्यापि पुरुषस्य चेत्स्पर्शः कृतो भवेतहि मम शिक्षां कुरु । इत्युक्तवती द्रुतमेव सा यक्षपादाभ्यां निर्गता, यक्षस्तु तस्याः स्त्रीचरित्रपटपाटवं चितयन्नेव तस्थिवान्, लोकैरपि सतीति कथ्यमाना सा गृहं समायाता ।
अथ तदादितो स्त्रोचरित्रविषण्णीभूतो देवदत्तो रात्रावपि गतनिद्रो बभूव तं गतनिद्रं श्रुत्वा राजा निजप्रासादे प्राहरिकं कृतवान् । अथ राज्ञः पट्टराज्ञी मेंठेनैकेन सह लुब्धासीत् । सा तस्य पार्श्वे गमनोत्सुका पुनः पुनः शयनादुत्थाय द्वारा समायाति परं तं स्वर्णकारमनिद्रं ज्ञात्वा पञ्चाद्वलति । अथ तत्कारणजिज्ञासुः स्वर्णकारः कपटनिद्रया सुप्तस्तदा राज्ञी तं गाढनिद्रितं विज्ञाय गवाक्षे समागता । तत्र बद्धहस्तिना च शुंडादंडेन साऽधः
।।२१९ ।।