SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ IN यामाम । इनो जयपुग्नगरे विध्याभिधराजः प्रभुप्रभवाभिधौ पुत्रावास्ना । राजा महतो लपवाय प्रभवे राज्य दतं, ततो ज्यष्टपुत्रप्रभवः कुपितश्वीरगल्ल्यां ममागत्य चौरनि कृतवान् । ॥२१॥ अथकदा स पंगतीरयुतो राजगहे जंत्र कमारगृहे चौर्यार्थ समागन्य सर्वेभ्योऽवस्वापिनी मित्रां दत्वा धनं गृहीतुं लग्नः । अथ जंबकुमारम्य ब्रह्मचर्यमाहात्म्येन या निद्रा नागता । ततोऽसौ नांशीरान् दृष्टवा नमस्कार-महामंत्रस्य निजमनसि ध्यानमकरोत् । तत्प्रभावतस्ने सर्वेऽपि चोराः स्तंभितास्तदा प्रभवो जंबू कुमारं नवा विजपयामासहूं जंबो ! त्वं मम स्तंभिनी विद्यां देहि । म पाश्र्वाच्चाबस्वापिनी तालोद्घाटिनी च द्वे विद्यं गृहाण । जंवकुमारेणोक्त-प्रातग्हं पितरी प्रनियोध्य दीक्षामादास्ये, मम विद्यायाः प्रयोजन नास्ति । किंच मम पार्श्वे कापि विद्या नास्ति । केवलं यूयं शासनव्यवस्तंभिताः स्य । इति श्रुत्वा प्रभवेन सर्वेषाम यबस्वापिनी निद्रा पश्चात्संहृता कथितं च हे मित्र ! यौबनेऽपि त्वं विषयमुखपराङ्मुखः कथं वर्तमे? जंव कुमारणं,क्त-हे प्रभव ! सांसारिकविषयोऽयं मधुविदुसदृशोऽस्ति । यथा कश्चित्पुरुपः सार्थाद्मष्टो बने मदोन्मतगजेन दृष्टस्ततो भीतोऽसी कपोपरि लंबमानकवटवृक्षशाखायां विलग्नो 1 गजेन शुंडातस्तमादातुं बहुः प्रयत्नः कृतः परमशक्तो बभूव । द्वौ मूषको तां शाम्नां कर्तयतः, गजश तो वृक्षशाखा घुनयितुं लग्नः । इतोऽध: कृपमध्ये विकासितनिजभयंकरमुखौ द्वावजगरौ तेन दृष्टी, चतुःपार्श्वषु चतुःकृष्णसर्पाः फूत्कारं कुर्वतस्तेन दृष्टाः । ॥२१॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy