________________
श्री दानादि
फूलक
वृत्ति:
।।२१० ।
पृष्टं मम भार्या नागिला क्वास्ति ? नागिलयोक्तं-संवाहमस्मि परं हे मुने ! त्वयाधुना मदयं चारित्रं न त्याज्यं । इत्यादि मिष्टवचनंस्ता प्रतिबोधितोऽसौ दुत्तं पश्वाद्गुरुपार्श्वे समागत्यालोचनां जग्राह । नागिलयापि साध्वी समीप दोक्षा गृहीता । प्रांते भवदेवः शुद्ध चारित्रं प्रपात्य सौधर्मदेवलोके सामान्येंद्रो जातस्तत्र च तो द्वावपि भ्रातरौ परस्परं महाप्रीतिवंती जाती ।
अथ भवदत्तजीवस्तु क्रमेण तनश्च्युत्वा पुष्कलावतीविजये पुन्डरीकियां नगर्यो चक्रवतिपुत्रो जातस्तत्र च यौवनं प्राप्य दोक्षामात्रायावधिज्ञानं च स प्राप्तवान् । भवदेवजीवोऽपि तत्र विजये वीतशोकायां नगर्या पचरथनृपस्य शिवकुमाराभिधः पुत्रो जातः परिणीताञ्च तेन पंचशतस्त्रियः ।
एकदा निजपूर्वभवभ्रातरं चत्रिपुत्रं वीक्ष्य प्रतिबोधं प्राप्य स दीक्षाग्रहेच्छुजत्ति पर मातापितृभ्यां निवारिततिः पुरमध्ये भावयत्तित्वं पालयन् स्थितः । सर्वा अपि नार्यो हावभावादिविलासांस्तस्य पुरः कुर्वति परं स मनागपि तो चलितः । तत्रस्योऽयं नित्यं षष्ठ्ठेपलेनाचाम्लतपः करोति । एवं स द्वादशवर्षावधि तपस्तप्त्वा पंचदेवलोकास्यं विद्युन्माली देवोऽभूत् । आचाम्लतपः प्रभावेणायमखंडिततेजोयुक्तो वर्तते ।
अथानंतरं स देवः सप्तमे दिवसे ततश्च्युत्वा राजगृहनगरे ऋषभदत्तव्यवहारिणो धारिणीनामभार्यायाः कुक्षी जंबूवृक्षस्वप्न मूचितपुत्रस्नोत्पन्नः । स्वप्नानुसारेण तस्य जंबूकुमार इति नाम दत्तं । क्रमेण यौवनं प्राप्तोऽसौ समुद्रश्रीप्रभृत्यष्टौ कन्या: केवलं पित्रोराग्रहेण परिणीतवान् । परं स्वयं वैराग्ययुक्तो ब्रह्मचयँकलीनस्ता: प्रतिबोध
RECO
तपः
कुलकम्
जनुकुमार
कथा
॥२१०