________________
1130911
मासाद्य संसाराद्विरक्तीभूय निजद्रव्यस्य धर्ममार्गे व्ययं विधातुं समारंभं कृतवान् । इतस्तेन शालिभद्रेण मह दीक्षा गृहीतेत्यादिसंबंधः पूर्वमेवोक्तः । इति श्रीतपः कुलके धषिद्वय कथा ||
सुणिऊण तव सुंदरी - कुमरीए अंबिलाण अणवरयं । सठ्ठि वाससहस्सा, भण कस्स न कंपए हिमयं ।। १५ ।।
व्याख्या - श्रुत्वा तपः सुन्दर्याः कुमार्या आचाम्लं निरंतरं पछिसहस्रवर्षं यावत् त्वं भण कथय कस्य हृदयं न कंपते ? अपि तु सर्वेषामपि हृदयं कंपते. अर्थात् पछिसहस्रवर्षं यावत्सुन्दरीकृतमाचाम्लतपोवार्त्ता श्रुत्वा को न चमत्कारं प्राप्नोति ? ।। १५ ।।
।। सुन्दरीकथा चेत्थं
यदा श्री ऋषभदेवप्रभोः केवलज्ञानं समुत्पन्नं तदा प्रभोर्देशनां निशम्य प्रतिबुद्धा सुन्दरी दीक्षाग्रहणतत्परा जाता, परमियं वीरत्नं भविष्यतीति विचार्य भरतेन स निवारिता । अथ भरतोऽपि पट्टिवर्षसहस्राणि यावत् पटुखंडसाधनायाभ्रमत् । भरतगमनानंतर सुन्दर्या चितितं यद्यहं स्त्रीरत्नं भविष्यामि, तहि मम षष्ठतरके गमनं भविष्यतीति विचार्य तयाचाम्लतपः समारब्धं । पटिसहस्रवर्षाणि यावत्तया तत्तपः कृत्वा निजशरीरं शोषितम् । इतो भरतोऽपि सुभद्राभिधानन मिराजपुत्रोस्त्रीरनयुतः पखंडानि साधयित्वा गृहे समागतः । तत्रातीयदुर्बलां सुन्दरीमालोक्य तेन कोपेन सूपकाराः पृष्टाः - किमस्मद्गृहे धान्यं नास्ति ? सूर्यकारैर्भयविह्वलैः प्रोक्तं-स्वामिन्! श्रीमंतो यदा देशसाधनाय प्रस्थितास्तदादित इयमाचाम्लतपांसि करोति । तत् श्रुत्वा भरतेन सुन्दरी पृष्टा - कथं ते शरीरं
॥२०७॥