SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ॥२०३॥ समानीतश्च गृहद्वाराये । अथ मंचकं विशालत्वाद् द्वारप्रवेशायाऽयोग्यं ज्ञात्वा तेन तस्य पादा मुत्कलीकृता निःसृतानि च तस्मा द्रत्नानि ढकितानि च तेन पितुः पादाग्रे । तद् दृष्ट्वा ते श्रयोऽपि भ्रातरः श्याममुखीभूय चांडाला इव यन्नमारणेच्छामकुर्वन् । अथ कुतोऽपि तद्वृत्तांत विज्ञाय धन्नो पुण्येकसखो देशांतरंप्रति चलितः । बहुभूमि लंघनानंतर केनचित्कृषीवलेन तमाहूय भोजनं दनं । इतस्तत्र तस्य क्षेत्रे होत्खातभूमितो निधानं निःसृतं परं कुषीवलेन तन्न दृष्टं । धन्नेन तस्मै तद्दर्शितं सोडतीवहृष्टः । इतो धन्नोऽग्रे चलन् राजगृहे समागत्यैकस्मिन् शुष्कवने स्थितः परं तस्य पुण्योदयतस्तद्वनं प्रफुल्लितं । तदा हृष्टो वनपालो धन्नं निजगृहे समानीय तस्य बहुभक्ति चकार । इतस्तस्य माहात्म्यं विज्ञाय श्रेणिकराज्ञा निजपुत्री सोमश्रीस्तेन सह परिणायिता । गोभद्रश्रेष्टिना च बनपालेनापि निज निजपुत्र्य तस्य परिणायितः । राज्ञा तस्मै बहुग्रामवनावासादि दत्तं । धन्नोऽपि देववत्तत्र सुखानि भुंजनस्तिष्ठति । इतश्चैकदा गवाक्षस्येन धन्नेन पथि सकलमपि निजकुटुम्बं रंककुटुम्बमिवेतस्ततो भ्रमद् दृष्टं । श्रन्नस्तानुपलक्ष्य स्वसमीपे समानयत् । ततस्तेन पित्रे पृष्ठ हे पितः ! कथमेतादृशी विपत्समागता ? तेनोक्तं- हे वत्स ! यदा त्वं गृहान्निर्गतस्तदा तत्र विरहमसहमानेव सकलापि लक्ष्मीनिर्गता ? जाताच वयं सर्वेऽपि दुःखिनः, परं क्रमेण त्वामत्र नृपजामातरं विजायागताः स्मः । तत् श्रुत्वा धनेन मातापित्रोर्वहुभक्तिः कृता । भ्रातॄणामपि बहुमानं समर्पितं कथितं च यूयमप्यत्र सुखेन मम गृहे तिष्ठत ? किर्याद्दिवसानंतरं पुनस्ते दुष्टभ्रातरो धनोपरि मत्सरं १२०३
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy