________________
श्री दानादि
कुलक
वृत्तिः
।।२०२ ॥
धन्नेन तं द्रव्यं दत्वा स मेषो गृहीतः । इतो राजपुत्रो निजैकमेपयुतस्तत्र मार्गे क्रीडार्थ समायातः । अथ तौ द्वापि मे जातिस्वभावतः परस्परं योऽधुं लगौ । तदा राजकुमारधन्नाभ्यां विनोदेन परस्परं पणः कृतो, यद्यस्य मैपो हारयेत्स सहस्रदोनारं दद्यात् । लोकवृन्दमपि तत्र परितः समूहीभूतं । इतो देवयोगाद्राजकुमारस्य मेषो हारयित्वा प्रणष्टस्तदा राजकुमारेण निजपणस्थिरीभूतेन धन्नाय दीनारसहस्रं समर्पितं । धन्नोऽपि हृष्टः सन् गृहमागत्य पितुरग्रे तद्दीनारसहस्रं मुक्तत्रान् । तद श्रेष्ठिना तांस्त्रीनपि पुत्रानाय प्रोक्तंघन्नस्य भाग्योदयं पश्यत ? तैरुक्तमेकवारेण किं ? पुनरपि परीक्षां कुरु ? तत् श्रुत्वा पित्रा तेभ्यश्चतुभ्योऽपि पृथक् पृथक् पठिषस्वर्णका: समर्पिताः । अथ ते त्रयोऽपि भ्रातरः पूर्ववन्मूलरहिता एवं गृहे समागताः, धन्नस्तु तद्धनं गृहीत्वा चतुष्पथे
समायातः ||
इतस्तस्मिन्नगरे कोऽपि महाधनाढ्यः कृपणः श्रेष्ठी वसति । सोऽति कृपणत्वास्कपट्टिकामात्रमपि कस्मे न ददाति । तद्गाढ बंधनव्याकुलीभूतेव कुपिता लक्ष्मीः सर्वदा तस्य भोजनायापि शुद्धमन्नं न प्रयच्छति । एवं तेन बहूनि रत्नानि संचयी कृत्य मंचकचतुःपादमध्ये प्रच्छन्नतया रक्षितान्यभवन् । तस्य मंच कोपरि च नित्यं स्वयं स्वपिति । मरणावसरे तेन पुत्रेभ्यः कथितं युष्माभिरहमनेन मंचकेन सह श्मशाने समानेयः । अथ मृतं तं पुत्रा मंचकयुत श्मशाने समानयामासुः । तं च प्रज्ज्वाल्य मंचकश्च नियमानुसारेणतैः श्मशानरक्षकचांडालाय समर्पितः । चांडालोऽपि द्रव्यार्थ मंचकयुतश्चतुष्पथे समायातः । भाग्याकृष्टेन धनेन स मंचको द्रव्यं दत्वा तस्माद्गृहीतः
तपः
कुलकम्
धन्ना शालिभद्र
कथा
१२०२