SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्री दानादिकुलक वृत्तिः ।।२००१ यमद्रजालसमोऽस्ति । एवं मातरं निजद्वात्रिंणद्भार्याश्र प्रतिवोध्य तेन श्रीवीरप्रभुपार्श्वे चारित्रं गृहीतम् । अथ तस्मिन्नेव दिनं तेन श्रीवीराय प्रोक्तं- हे स्वामिन्नहं यावज्जीवं पष्ठषष्ठेनाचाम्पारणकं विधास्ये । स्वामिनापि तस्याज्ञा दत्ता । अर्थकदा पारणकदिने काकंदीनगर्यामागत्य स प्रथमप्रहरे स्वाध्यायं द्वितीयप्रहरे व ध्यानं विधाय श्रीवीमापृच्छय स्वयमाहारार्थं गतः । नीरसमाहारमादाय प्रभुपार्श्वे समागत्याडलंपटत्वेन चाचाम्ल कृतवान् । एवं तपोयुतं नवमासं यावच्चरित्रं पालयतस्तस्य शरीरमतीव दुर्बलं जातं । अर्थकदा श्रीवोरो राजगृहे समवस्तस्तदा श्रेणिकनृपेण प्रभुं वंदित्वा पृष्टं हे स्वामिन्! गौतमादिचतुदशसहस्रपतीनां मध्ये को दुष्करकारकोऽस्ति ? प्रभुणोक्तं - हे राजन्नेवंविधो धन्नो नामाणगारोऽस्ति । तत् श्रुत्वा हृष्टः श्रोणिकः प्रभुं दत्वा न्नागारसमीपे समागतस्तत्र तं ध्यानारूढमालोक्य प्रदक्षिणापूर्वकं नत्वा तेन कथितंहे मुने! त्वं धन्योऽसि तव जीवितं चापि सफलमेवास्ति । यतः श्रीवीरप्रभुणा स्वमुखेन तव प्रशंसा कृतास्तीति तं स्तुत्वा श्रेणिको निजगृहे समायातः । अथैकदा धन्नोऽणगारी रात्री चितयति यदधुना मम विहारकरणे शक्तिर्नास्ति । प्रभातेऽनः प्रभुमापृच्छयाहमशनं विधास्यै । अथ प्रभाते प्रभुमापृच्छय धन्नोऽणगारः सर्वमुनीन् क्षामयित्वा विपुलगिरिवरे गत्वा पादपोपगमनानशनं विधाय मासिक्या संलेखनया कालं कृत्वा सर्वार्थसिद्धिविमाने गतः । ततश्च्युत्वा च महाविदेहक्षेत्रे स मोक्षं गमिष्यति ।। इति श्रीतपः कुलके प्रथमधन्नाणगारकथा || तपः कुलक धन्य कुमा कथा ॥२०६
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy