SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९९॥ सेणीअपुरओ जेसि, पसंसियं सामिणा तवोरूअं । ते धन्ना धनमुणी, दुन्हवि पच्चुसरे पत्ता ।।१४।। व्याख्या-श्रोणिकराजाग्रे श्रीमहावीरेण ययोस्तपःस्वरूपं स्वमुखेन प्रशंसितं, तौ पत्रौ धन्यो ज्ञयौ, तौ । द्वावपि पंचमानुत्तरविमाने प्राप्तौ ॥१४॥ अथ प्रथमस्य काकदीवास्तव्यधनस्य कथा कथ्यते-- ___ काकंदीनगर्यां जितशत्रुनामराजास्ति । तत्र भद्राभिधाना महाधनबती सार्थवाही बसति । तस्य पुत्रो धन्न इत्थभिधानो यौवनं प्राम एकेनैव दिनेन द्वात्रिंशत्कन्या: परिणीतवान् । ताभिः सहानेकविधानि सुखानि स भनक्ति । अर्थकदा श्रीवीरस्तत्र समवसतस्तदा सर्वनगरलोकान् वीरबदनार्थ गच्छतो विलोक्य धन्नोऽपि रथस्थस्नत्र गत्वा श्रीवीरप्रभु ननाम । वीरदेशनां च श्रुत्वा प्रतिबुद्धन धन्नेनोक्तं स्वामिन्नहं मातरमापुच्छ्य भवत्समीपे चारित्रं गृहिष्यामि । भगवतोक्तं यथामुखं देवानुप्रियेलि । अथ धन्नो गृहमागत्य मातरं प्रत्युक्तबान्-हे मातर्मयाद्य श्रीवीरो वंदितः श्रुता च तस्य धर्मदेशना । मात्रा प्रोक्तं-त्वं धन्योऽसि, तवाभिधानमायद्य सफलीभूतं 1 पुनर्धनेनाक्त-हे मातर्यदि तवाज्ञा भवेत्तहि अह श्रीवीरप्रभोः । पावें दीक्षामधिगच्छामि । तत् श्रुत्वा व्याकुलया मात्रोक्त-हे पुत्र! सर्वमेतद्धनं कस्य भोग्यता प्रयास्यति ? धनेनोक्त-हे मातर्धनमेतदसारमस्ति । यतो धनस्य चौरराजाग्निसमुद्भवभयोऽस्ति । पुनर्मात्रोक्तं-हे पुत्र ! एतास्ते द्वात्रिंशत्प्रिया अपि क्व गमिष्यति ? धनेनोक्त-हे मातरेताः सर्वा हरिद्रारावनिःस्नेहा ज्ञयाः । संसारः सकलो
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy