SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्री दानादि कुलक वृत्तिः ।।११८।। सति लब्धिः समुत्पद्यते स च करतलैकसंयोगे त्रिवेलं जंबूद्वीपं परिभ्रम्य समायाति । तिर्यग्गत्या च समुत्पतिते सति वेदे नानुको द्वितीयस्फालेन च तस्मादुत्पत्य नंदीश्वरे याति । तत्र च चैत्यानि वंदित्वोत्पत्य चैकेन स्फालेनैवात्र समायाति । अथोर्ध्वगत्यं क्रेन स्कालेन मेरी नंदनवने याति । भूमिसकाशान्नंदनवन पंचशतयोजनोश्चमस्ति । तस्मादुत्पत्य मेरोरप्रभागशिखरे पंडकवने याति । तत्र च चैत्यानि प्रणम्यैकेनेव म्फालेनात्र समायाति । अथ जंघाचारणतपोलब्धिनिरंतरमष्टमतपः पारणे कृते सति समुत्पद्यते । तल्लब्धिवान्मुनिः करतलैक संयोगे कृते सप्तवेल जंबूद्वीपे परिभ्रभ्य समायातीति तस्य शीघ्रगतिर्ज्ञेया । तिर्यग्गत्यैकेन स्फालेन स स्वकद्वीपे याति । चैत्यानि च नमस्कृत्य द्वितीयस्फालेन स नंदीश्वरे समायाति । तत्र च चैत्यानि वंदित्वा समुत्पत्य चात्र समायातीति तस्य तिर्यग्गतिज्ञेया । अथोर्ध्वगत्यैकेन स्फालेन मेरोरग्रभागे पंडकवने याति । तत्र चैत्यानि वंदित्वा पश्चाद्वलमानी नंदने विश्राम्यति । तत्र च चैत्यानि वंदित्वा तत उत्पत्यंकस्फालेनात्र समायातीति तस्योध्धर्वगतिज्ञेया । विद्याचारणस्य गमने मंदगतिरागमने च शीघ्रगतिर्भवति । जंघाचारणस्य गमने शीघ्रगतिरागमने च मंदगतिर्भवति । तस्य किं कारणमिति चेद्विद्याचारणो विद्याबलेन याति । सा च विद्या स्मरमाणा स्मरमाणा जागरमाणा भवति । जंघाचारण: पुनः शरीरबलेन याति । स गमने सोत्साहो याति, आगमने पुनः खिन्नः सन विश्राम्य समायातीति भावार्थः । इति श्रीतपःकुलके जंघाचारणविद्याचारणवृत्तांतः ॥ तपः कुलकम् जंघा चारण विद्या चारण कथा 1188611
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy