________________
वर्ततेऽतो ममोपरि कृपां विधाय मां तत्र नय । दयालुना यक्षेणाप्यहं तत्र मुक्तः । मयापि तत्र स्फटिकनिर्मलजले सानं कृत्वामंदानंदः संप्रामः । इतः पूर्वभवत्र
रिसितनाम्ना वक्षेण सह नत्र युद्ध कस्वाऽहं तं ब्यापाद्य ॥१८३॥
विजयवानभवं । ततोऽग्रे प्रस्थितेन मया भित्तिचितमणिकरनिकररस्तांधकारा अनेके दिव्यावासा दृष्टाः । इतस्तत्र सहसा भानुवेगाभिधेनकेन विद्याधरणागत्य स्वागतपूर्वकं मम भोजनादि दत्तं, कथितं च हे कुरुवंशशिरोमणे ! अश्वसेनतनय ममाष्टौ कन्यारत्वं परिणय । मोक्तं, त्वं कथं मामुपलक्षसे ? तेनोक्तं वयं वैतादयवासिविद्याधरा स्मः ।
एकदा मया पृष्टेन ज्ञानिनोक्त, यो हि असितयक्ष जेष्यति स त्वदीयकन्यानां भर्ता भविष्यति, चक्रवत्तित्वं च लप्स्यते, अतोऽद्यासितयक्षजयात्वामहं तमेव जानामि । ततोऽहं नत्र ताः कन्याः परिणीय बताढय समागतस्तत्र च मया चंद्रबेगराजो बकूलमतीप्रमुख कन्याशतं परीणोत । तावदर त्वं मम मिलितः ।
____ अथ महेंद्रसिंहेन पृष्टं, तेनासिनयक्षेण सह तव पूविरं कथमस्ति ? तदा तेनाबलोकिनी विद्यां प्रयुज्य कथितं, तेन सह मम पंचभववरमस्ति । कंचनपुरनगरे विक्रमयशोराज्ञो रूपवत्यः पंचशतराश्य आसंस्तथापि भोगेPA भ्य: सोऽतृप्त एवासीत् । अथ तत्रैव नगरे नागदत्तव्यवहारिणो विष्णुश्रीनामभार्यासीत् । एकदा गवाक्षस्थां तां
विलोक्य राजा व्यामोहितः सन् तां स्वांत:पुरे नीतवान् । कृता च तेन सा पट्टराज्ञी। मंत्रिणानेकप्रकारैः प्रतिबोधितोऽपि स तां न मुमोच । स्त्रीविरहपीडितो नागदत्तो ग्रथिलीभूय विलापान् कुर्वन्नगरमध्ये भ्रमति ।
अथ तस्यामासक्तेन राजा ता: पंचशतराज्योऽपि विस्मृतास्तदा ताभिः कार्मणं कृत्वा विष्णुश्रीापादिता।
॥१८३॥