SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्री दानादि कुलक वृत्तिः ॥१४॥ षष्ठः केशबजीवः सामन्तनाम्नो राज्ञो गृहे पुत्रत्वेन सुयशानामा जातः ॥ स सुयशाः पूर्वभवनेहाज्ज्रनाभंप्रति बहु सेवते । ततोऽनंतर वज्रमेनतीर्थकरो वार्षिकदानं दत्वा वचनाभाय राज्यं प्रदाय दीक्षां गृहीत्वा केवलज्ञानं प्राप्य तीर्थ च स्थापयित्वा विचरतिग्म । वचनाभेन राजा चतुर्णा भ्रातुर्णां देशान् विभज्य समर्पिताः, सुयशा सेनानीः कृतः । अथैकदायुधशालायां चक्रतं समुत्पन्नं चतुर्दश रत्नानि नवनियानानि च प्रादुर्भूतानि । ततः स पखंड साधयित्वा चक्रवतिपदवीं भुंजानः सुखेनायुः प्रतिपालयति । अर्थकदा वज्रसेतो भगवान् पुण्डरीकियां नगर्यां समवसृतः । वज्रनाभचक्रिणा च बहुमहोत्सवपूर्व क बंदितः, भगवता देशना दत्ता । तां श्रुत्वा वैराग्यं प्राप्य चक्री कथयति है तात ! यदि भवत्वं प्राप्यायहं संसारे भ्रमेयं तदा ममाप्यभाग्यं ज्ञातव्यं । एतावति दिवसानि भवद राज्यं मया पालितं । तथैवाधुना संयमप्रसादं कुरु । यथा पाल्यामि । ततश्चक्रिणा चतुर्भासहितेन सेनानीप्रमुखपरिवृतेन च पुत्राय राज्यं दत्वा दीक्षा गृहीता । चक्रिणा चतुर्दश पूर्वायवीतानि बाहुप्रमुखः पंचभिश्चैकादशांगानि पठितानि । अथानुक्रमेण वञ्चसेनभगवान् मोक्षं गतः । श्रीवज्रनाभवाचार्य पदवी भुनक्ति । विशतिस्थानकतपः कुर्वता च तेन तीर्थंकरगोत्रं समु पार्जितं । वाहूनामा साधु पंचतसाधुनामन्नपानादिभक्त करोति, सुबाहुमुनिश्च पंचशतसाधुनां वैयावृत्त्यं करोति । पीठमहापौ च तपांसि कुर्वतः वज्रनाभ आचार्यों बाहुबाहुंप्रति वैयावृत्त्यादिगुणरंजितः सन् प्रशंसति । ततः पीठमहापीठ स्वचेतसीरीयां विभृतो यद् गुरुरावयोः प्रशंसां न करोति, केवलं स्वसेवाहतोरेती ही प्रशंसति । एताहगी शीलकुलक आदिनाथ चरित्रं कथा ।।१४।।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy