SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ।।१३॥ मृततिर्थक्कलेबरं च समानीतं । अथ तदभ्यंगात्साघोर्मूर्छा समागता । तावता तैरत्नकंबलेन तत्शरीरं वेष्टितं । तदा सर्वे कृमयो बहिनिर्गत्य तद्रत्नकंबले लग्ना: । तांश्च मृतकलेवरे परिष्ठापितवंतः । पुनस्तथैव कृतं, पुनम्तृतीववारकेऽस्थिमध्यस्थाः कृमयोऽपिनिर्गताः । एवं सर्वानपि कीटकान्निर्गतान् ज्ञात्वा, ततोऽनंतरं चंदनेन साधुश रोरं विलिप्त नीरोगं च जातं कृष्ठरोगश्च गतः सरोहिण्योषध्या च शरीरत्व कसमागता, शरीरं च सीवर्णवण जातं । ततस्तैस्तत्कलेबरं तु तरुच्छा यायां परिष्ठापितं । ततः साधं बंदित्वा ते षडपि सखायः स्वस्वग हे समागतास्त पुण्यं चानुमोदयितुं लग्ना: । शेषचंदन रत्नकंबलं च मिति तोकियो जि। प्राय: कारापितः । ततोऽनुक्रमेण कालांतरे तैः षडभिर्दीक्षा गृहीता, निर्मलचारित्रं च पतिपाल्य प्रांतेऽन्दशनं कृत्वा काल प्राप्ताः । इति नबमो भव: ।।९।। अथ ते षडपि जीवा द्वादशमे देवलोके द्वाविंशतिसागरोपमोस्कृष्टायूषो देवा जाताः, इति दशमो भवः ।।१०।। ततश्च्युत्वा जंबूद्वीपे पूर्वमहाविदेहे परकलावतीथि जये पुंडरीकियां नमयाँ तीर्थंकरजीवो बज्रसेन राजा राज्यं भुनक्ति, तस्य गृहे धारिणी पट्टराज्ञी, तस्याः कुक्षौ पंच पत्रा अनुक्रमेण समुत्पन्नाः । प्रथमो जीवानंदवैद्यजीवश्चतुर्दशस्वप्नसूचितश्चक्रबतिपदवीयोग्यो बज्रनाभनामा जातः ।।१।। द्वितीयो राजपुत्रो महीधरजीवो बाहुनामा जातः ।।२।। तृतीयो मंत्रीपुत्रः सुबुद्धिजीव: सुबाहुनामा जातः ॥३। चतुर्थः सार्थवाहपुत्रः पूर्णभद्रजीवः पीठनामा पुत्रो जातः ।।४।। पंचम: श्रेष्ठपत्रो गणाकरजीवो महापीटनामा जातः ।।५।। एवं पंच पुत्रा जाताः,
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy