________________
श्री दानादिकलक
वृत्तिः
।। १२ ।।
बारा । पुनस्तमित्र महीधरो जातः मंत्रीश्वरपुत्री सुबुद्धिनामा जातः सार्थवाहपुत्री पूर्णभद्रो जातः, नगरश्रेष्ठिनः पुत्रश्र्व गुणाकरो जातः । एते पडपि सहैव जाताः सहैव संबद्धिता । तेषां बाल्यादारभ्य बहुप्रीतिर्जाता । एकत्र स्थाने ते तिष्ठन्ति रमते भुंजति च तेषां पप्णां क्षणमपि विरहो न भवति । सुखेन विषयमुखं भुजानः सत् कालं निर्गमयति । अर्थकदा कचित्साधुः कुष्ठरोग्यस्ति तच्छरीरे क्रमयः पतिताः संति । सः साधुः पठमपारणे आहाराधं वैद्यगृहे समागतः । जीवानंदनः पि साधोः शरीरं रोगातुरं कृमिभिव संकुल दृष्ट्वा पंचानां मित्राणां कथितं यदि यूयं रत्नकंबल गोशीर्षचंदनं च मेलयेत तदाहं साधुशरीरं नोरोगं करोमि । इति श्रुत्वा ते पंचापि मित्राणि श्रेष्टिनी हट्टे गतानि । तत्र च तं श्रेष्ठिने कथितं त्वं दीनारलक्षद्वयं गृहाण । अस्माकं च गोशोर्य चंदनं रत्नकंबलं च देहि । तदा श्रेष्ठता प्रोक्तं किं करिष्यथ ? तैः प्रोक्तं जीवानंदबंधो मुनिशरीरं चिकित्सयिष्यते । तदा श्रेष्ठिना कथितं यूयं बालका अपि एतादृग्बुद्धिवंतो धर्मधिया परोपकारिणो घन्या एव । अहं च वृद्धोऽस्मि तेनाहमप्यमूल्यफलप्राप्तये तन्मूल्यं नो गृह्णामि ।
इत्युक्त्वा श्रेष्ठ! तेभ्यो रत्नकंबलं गोशीर्षचंदनं च दत्तं ततः स श्रेष्ठीतत्पुष्यमहिम्ना प्रांते चारित्रं प्रतिपात्य मोक्षं गतः । अथ ते पंचापि सखायो रत्नकंबलं गोशीपचंदनं च गृहीत्वा जीवानंदवेद्य गृहे समागताः । जीवानंदोऽपि लक्षपाक तैलं गृहीत्वा पंचमित्रसहितो यत्र वने साधुः कायोत्सर्गेण स्थितस्तत्रायातः । ततो मुनि वंदित्त्वा तदाज्ञां च मार्गयित्वा ते पडपि तस्य शुश्रूषां कर्तुं लग्नाः । प्रथमं सर्वशरीरे तैललपः कृतः । समीपे
दान
कुलकम
आदीनाथ चन्त्रि
॥ १३ ॥