________________
।। ११ ।।
ब्रवीषि ?
श्रीमत्या प्रोक्तं हे मातः ! सम जातिस्मरणं समुत्पन्नं पूर्वभवो दृष्टः । अतरतं भर्त्तारं प्राप्य ब्रविष्यामि । ततस्तया स्वपूर्वभवस्य निखिला वार्त्ता धातुः पुरः कथिता तनस्तया चतुराच्या तद्द्वृत्तान्तं चक्रिणं निरूप्य चित्रकारपार्श्वे तस्याः सर्व पूर्वभवचरित्रं लिखापितं । चित्रपट्टश्च सर्वनृपेभ्यो दर्शितः परं न कोऽपि तत्संकेतं पूरयति । ततो वज्रसेनचक्रिणा लोहागंलपुरस्य सुवर्णजंघराज्ञः पुत्राय वज्रजंघाय तस्पट्टी दर्शितः । तं दृष्ट्वा तस्यापि जातिस्मरणं समुत्पन्नं । एवं पूर्वभव संकेतपूरणेन श्रीमत्यपि संतुष्टा । पित्रा महोत्सवपूर्णकं तयोः पाणिग्रहणं कारितं । ततः सुवर्णजंघेनापि वज्रजंघाय राज्यं दत्वा दीक्षा गृहीता, उत्तमार्थ साधितः । वज्रसेनचक्रयपि दीक्षां गृहीत्वा तीर्थकरपदवीं प्राप्य मोक्षं गतः, वज्रजंघगज्ञो राज्यं पालयतः सतः श्रीमती कुक्षौ पुत्रो जातः । अथैकदा तस्मिन् पुत्रे वृद्धि प्राप्ते सति रात्री तो नृपराइयो चितयतः स्म । प्रातः पुत्राय राज्यं दत्वाऽावां दीक्षां गृहीष्यावः । इतश्च राज्यलोभी पुत्रमिति वृद्धोऽपि पिता मम राज्यं न ददाति इति विचित्त्य तेन विषधूमप्रयोगेण तौ मारितौ । इतिषष्ठो भव || ६ || राजारा सुखोत्तरकुरक्षेत्रे युगलिको जाती, इति सप्तमो भवः ||७|| ततो मृत्वा सोधमें देवलोके तौ देवी जातो, इति अष्टमो भवः ॥८॥
1
ततश्च्युत्वा तौ जंबूद्वीपे महाविदेहे क्षेत्र क्षितिप्रतिष्ठितनगरे सुविधनामा वैद्यस्तस्य स जीवानंदनामा पुत्रो जातः । स चातिपंडितः परोपकारी च । तस्मिन्नेव नगरे श्रीमती जीवोऽपीश्वरदत्तव्यवहारिणः केशवनामा पुत्रो
॥११॥